________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० २] मिताक्षरासहिता।
१३९
सर्वेषामेव दण्डविधिः स्मृतः ॥' इत्युक्त्वोक्तम्-'वधाहते ब्राह्मणस्य न वधं ब्राह्मणोऽहति ॥' इति ।-'शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥' इति ॥ अङ्कने च व्यवस्था दर्शिता-'गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥' इति । यत्तु-'चक्षुनिरोधो ब्राह्मणस्य' इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुनिरोधः कर्तव्य इति तस्थार्थो न तु चक्षुरुद्धरणम् । –'अक्षतो ब्राह्मणो ब्रजेत्' 'न शारीरो ब्राह्मणे दण्डः' इत्यादिमनुगौतमादिवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ ॥
स्वत्वाव्यभिचारित्वेन भोगस्य स्वरवे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वाकीदृशो भोगः प्रमाणमित्यत आह
आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगादप्यधिको बलीयान् । स्वत्वबोधने भोगस्यागमसापेक्षत्वात्। यथाह नारदः-'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥' इति । नच भोगमात्रात्स्वत्वागमः । परकीयस्याप्यपहारादिनोपभोगसंभवात् । अतएव-'भोग केवैलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥' इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निराकोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथाच मर्यते- 'सागमो दीर्घकालश्चाविच्छेदोऽपरवोज्झितः । प्रत्यर्थिसंनिधानोऽपि परिभोगोऽपि पञ्चधा ॥' इति । कचिच्चागमननिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह-विना पूर्वक्रमागतादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः तेनागतो यो भोगस्तम्माद्विना आगमोऽभ्यधिक इति संबन्धः । से पुनरागमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः। तत्राप्यागमोज्ञातनिरपेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । विना पूर्वक्रमागतादित्येतच्चाऽस्मार्तकालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति च स्मातकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवादागमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले यो. ग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवादागमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन-मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावारक्रमात्रिपुरुषागता ॥' इति । स्मार्तश्च कालो
१ उक्तं पूर्व २४ श्लोके पश्यतोऽब्रुवत इत्यत्र. २ कापट्यरहितेन. ३ केवलम्. ४ सागमो विशुद्धागमसहितः, अविच्छेदो निरन्तरः, अपरवोज्झितो निरनुक्रोशः. ५ अपरिवर्जित इति पाठः. ६ सः पूर्वक्रमागतो भोगः. ७ विशिष्टेनोपभोगेनैव. ८ स्मार्तः स्मरणयोग्यकालः. ९ योग्यत्वे सत्यनुपलब्धिर्योग्यानुपलब्धिस्तस्या अभावे न. १० क्रिया प्रमाणम्.
था. १५
For Private And Personal Use Only