________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता। आध्यादिष्वपि विंशतेरूर्व पत्रदोषोद्भावननिराकरणस्य सैमत्वेनाधिसीमेत्याधुपवादासंभवात् । यथाह कात्यायन:-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः। तेन लेख्येन तसिद्धिर्लेख्यदोषविवर्जिता॥' तथा-'सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । ए. तेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थो वक्तव्यः । उच्यते-भूमेधनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिर्नापि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं न लभते । अप्रतिषेधलक्षणात्स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव, पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अब्रुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि फलस्य स्वत्वात्तद्धानिरनुपपन्नैव बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगानष्टं तत्र स्वरूपनाशादेव स्वत्वनाशे-'अनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्त, हानिर्विशतिवार्षिकीत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षण
वापराधादसाच्च वचनाद्विशतेरूवं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्थापवादमाह
आधिसीमोपनिक्षेपजडबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः। जडश्च बालश्च जडबालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाच जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना। उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष. णार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- स्वं द्रव्यं यत्र विस्त्रम्भासिक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति । उपनिधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेशितेरूवं धनस्य च दशभ्यो वर्षेभ्य अर्ध्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्याभावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथाहि-आधेराधित्वोपाधिक
१ समत्वेनापवादासंभवान् ख. २ सत्योऽर्थों निर्दुष्टोऽर्थः. सभ्योन्योर्थों ग. पाठः. ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्तं, तत् द्रव्यदानम्. ६ अपोचते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग. ९ यत् स्वं द्रव्यं यत्र परहस्ते विस्रम्भाद्विश्वासान्निक्षिपति. १० उपचयहानिः फलहानिः. ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः. इति पाठः,
For Private And Personal Use Only