________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् ॥ .अपिच'भनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्येतदनागमोपभोगस्य स्वत्व हेतुत्वे विरुध्यते । नच-'अनागमं तु यो भुते' इत्येतत्परोक्षभोगविषयम् । पश्यतोऽब्रुवत इति प्रत्यक्षभोगविषयमिति युक्तं वक्तुम् । अनागमं तु यो मुझे इत्यविशेषाभिधानात्-'नोपभोगे बलं कार्यमाहा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥' इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । नचैतन्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन भूविषये विंशतिवर्षोपभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्ताया उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषूत्तरैव क्रिया तत्वतो नोपपद्यते स्वमेव ह्याधेयं देयं विक्रेयं च भवति । नचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वमस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः मर्यते-'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥' इति । तथाध्यादीनां त्रयाणामपवादत्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपपन्नैव । नापि व्यवहारहानिः । यतः–'उपेक्षां कुर्वतस्तस्य तूष्णीभूतस्य तिष्टतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥' इति नारदेनोपेक्षालिङ्गाभावकृता व्यवहारहानिरुक्ता नतु वस्त्वभावकृता । तथा मनुनापि--'अजडश्चेदपोगण्डो विषेयश्चास्य भुज्यते । भग्नं तव्यवहारेण भोक्ता तद्धनमर्हति ॥' इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैवम्-भोक्ता किल वदति 'अजडोऽयमपोगण्डोऽवालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदास्ते' इति, तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्य भूतेन व्यवहाराबयेन्नृपः' इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिनापि व्यवहारहानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भव. तीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच्च न स्मार्तकालाया भुक्तेहानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यमित्येतावन्मात्रामिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते-'विंशतिग्रहणमूर्व पत्रदोषोद्भावननिराकरणार्थम् ।' यथाह कात्यायन:-'शक्तस्य संनिधावर्थो यस्य लेल्येन भुज्यते । विंशतिवर्षाण्यन्तिकान्तं तत्पत्रं दोषवर्जितम् ॥' इति । तदपि न ।
१ उत्तरविषयक्रियायाः ख. २ तेषु आध्यादिषु. ३ स्वत्वविशिष्टमेव-स्वयमेव घ. ४ अस्वत्वस्य ख. ५ अपवादोऽपवादत्वम्. ६ स्वत्वहान्या स्वरूपहानिः.७ तस्य वादिनः. ८ उपेक्षायां यानि लिङ्गानि जडत्वबालत्वादीनि तेषां योऽभावस्तत्कृता. ९ विषयो देशः, अस्य धनिनः विषये चास्य भुजते इति घ. पाठः, १० अथमतमित्यन्यथाव्याख्यानं. ११ स्मरणविषयतायोग्यकालिकायाः.
For Private And Personal Use Only