________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१३५
उत्तरकार्ये साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजीयते । तद्यथा - कश्चिग्रहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जेयी भवति । तथा पूर्व द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् तत्रोभयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वाबाधेनानुत्पत्तेः । उक्तंच - 'पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति' इति ॥
1
अस्यापवादमाह
आधौ प्रतिग्रहे कीते पूर्वा तु बलवत्तरा ।। २३ ।।
आध्यादिषु त्रिषु पूर्वमेव कार्य बलवत् । तद्यथा— एकमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्वाहितस्य तदानीमस्वत्वात्पुनराधा 'नमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानकयौ नोपपद्येते तस्मादिदं वचनमनर्थकम् । उच्यते - अस्वत्वेऽपि यदि मोहात्कचिल्लोभाद्वा पुनराधानादिकं करोति तत्र पूर्व बलवदिति न्यायमूलमेवेदं वचनमित्यचोद्यम् ॥ २३ ॥ भुक्तेः कैश्विद्विशेषणैर्युक्ताया प्रामाण्यं दर्शयिष्यन् कस्याश्चिद्भुक्तेः कार्या
न्तरमाह
पश्यतोऽब्रुवतो भूमेर्हानिर्विशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥ परेणासंबन्धेन भुज्यमानां भुवं धनं वा पश्यतः अनुवतः मदीयेयं भूः न त्वया भोक्तन्येत्यप्रतिषेधयतः तस्या भूमेर्विंशतिवार्षिकी अप्रतिरवं विंशतिवर्षो - पभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वेतदनुपपन्नम् । नह्यप्रतिषेधात्स्वत्वमपगच्छति अप्रतिषेद्धस्य दानविक्रयादिवस्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोर प्रसिद्धत्वात् । नापि विंशतिवर्षोपभोगात्स्वत्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रेमाणस्य च प्रमेयंप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथाहि - 'स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु ब्राह्मणस्यादिकं लब्धं, क्षत्रियस्य विनिर्जितम्, निर्विष्टं वैश्यशूद्रयोः इत्यष्टावेव स्वत्वकारक हेतून गौतमः पठति न भोगम् । नचेदमेव
१ जयति ख. २ द्वे वृद्धिर्यस्य तद्विकम् 'तदस्मिन्' इति कन्. ३ कैश्चित् आसेधरहितत्वचि - रकालत्वादिभिः. ४ असंबद्धेनेति पाठः. ५ पश्यतः वादिनः ६ अशब्दं यथातथेत्यर्थः. ७ अप्रतिषिद्धस्य ख. ८ स्वत्वम् । उत्पयत इतिशेषः ९ तस्य स्वत्वविषयकप्रमितिजनकत्वादित्यर्थः . १० प्रमाणस्य - उपभोगस्य प्रमेयं स्वत्वंप्रति ११ स्वामीति रिक्थादिषु पञ्चसु सत्सु स्वामी भवति । अप्रतिबन्धो दायो रिक्थं, सप्रतिबन्धः सविभागः, क्रयः प्रसिद्धः, अरण्यादिष्वनन्यपरिगृहीततृणकाष्ठादिस्वीकरणं परिग्रहः, निध्यादिप्राप्तिरधिगमः, इमे सर्वसाधारण स्वत्वकारक - हेतवः । असाधारणास्तु ब्राह्मणस्य प्रतिग्रहादिना लब्धं, क्षत्रस्य परपराजयेन लब्धं, वैश्यशूद्रयोः निर्विष्टं=भोगरूपेण भृतिरूपेण वा लब्धं तदधिकं - असाधारणं स्वत्वजनकम्. १२ विजितं घ. १३ नचेदं वचनं ग.
For Private And Personal Use Only