________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता।
१३३
गुरुम् । न हिंस्याब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥' इति (४।१६२) मनुवचनाच्च । आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवनान्यथा । हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे दोषो ह. न्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः- 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥' तथा'उद्यतासिर्विषाग्निश्च शापोद्यतकरस्तथा । ऑथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ॥' इति सामान्येनाततायिनो दर्शिताः । अतश्च ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थ हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपघेरंस्तन लघुप्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । तस्मादन्यदिहोदाहरणं वक्तव्यम् । उच्यते-'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' इत्यर्थशास्त्रम् । -'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति धर्मशास्त्रम् । तयोः कचिद्विषये विरोधो भवति । यथा-'चतुष्पाध्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति न धर्मशास्त्रमनुसृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति मित्रलब्धिर्विपरीता । तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अतएव-धर्मार्थसंनिपाते अर्थग्राहिण एतदेव' इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २१ ॥
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमित्युक्तं, किं तत्साधनमित्यपेक्षित आह
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ २२॥ प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं महर्षिभिः। तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद्युक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् । उच्यते-भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रिया
१ न हिंस्यादित्यादिवचनेनैवेत्यर्थः. २ उद्यतेत्यत्र असिविषाग्नीनां द्वन्द्वं कृत्वोद्यतशब्देन बहुव्रीहिः. ३ अथर्ववेदप्रतिपादिताभिचारादिकर्मणा. ४ मृत्युमाप्नयुः. ५ अयमस्मिन्नेवा. ध्यायेऽष्टमश्लोके पूर्व दर्शितः. चतुर्धाव्य. घ. ६ मानवं ख. ७ वक्ष्यमाणमये लेख्यप्रकरणे. ८ स्वरूपं च प्रकारश्च वक्ष्यमाणी येषाम् . तत्र प्रकारो भेदः सच दृष्टसाक्षिणः श्रुतसाक्षिण इत्येवमादिः. ९ लिपेः स्फोटकव्यजकत्ववत्साक्षिणी ध्वनिद्वारा तदभिव्यञ्जकत्वात्स्वरूपतस्तेषामतत्वेऽपि तत्त्वातत्त्वमिति भावः. १० आसेधरहितत्वादिविशेषणैः.
For Private And Personal Use Only