________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता । .
१२७
र्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सममपला. पदण्डम् । अथार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद्विगुणं धेनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदमेव योजनीयम् । तत्रार्थ्यवाऽपह्नववादीति प्रत्यर्थिना भावितो राज्ञे प्रकृ. तधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्याभियोगीति राज्ञे द्विगुणं धनं दद्यात् । अर्थिने च प्रकृतं धनम् । संप्रतिपत्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पंदान्तरेषु तत्र तत्र दण्डाभिधानादधनव्यवहारेष्वस्थासंभवाञ्च न सर्वविषयम् । 'राज्ञाऽधमर्णिको दाप्यः' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वैतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवेऽभियुक्तेन कृते यद्यभियोक्रा साक्ष्यादिभिर्भावितोऽभियुक्तस्तदा तत्सम तत्र तत्र प्रतिपदोक्त मेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः। अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमिति वदतोत्तरपादलेखने कालप्रतीक्षणं दर्शितं तत्रापवादमाह
साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः॥ १२ ॥ साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर्दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दापयेत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदानकालः इच्छयार्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ १२ ॥
१ प्रकृतधनसममपलापनिमित्तकदण्डम् . २ भावयितुं समर्थयितुम् . ३ धनं दद्याद्राक्षे ख. ४ तत्राप्यर्थेऽपह्नववादी प्रत्य. ख. ५ अस्मिन्नर्थेऽयं पूर्व पराजित इति प्राङ्न्यायो त्तरे गृहीतं प्रतिदत्तमिति कारणोत्तरे च दत्ते पूर्वन्यायं प्रतिदानं च प्रतिज्ञावाद्येवापलपतीति सएवापलापवादीत्यर्थः. ६ भावितः जयपराजयरूपप्राङ्न्यायस्य प्रतिदानस्य च साधनादङ्गीकारितो वादी. ७ मिथ्यावादी. ८ निह्नवे भावितो दद्यादित्येतत्. ९ पदान्तराणि द्विविधानि सधनानि अधनानि च । तत्र सधनेष्वाह पदान्तरेष्विति. १० अधनेति । वाग्दण्डपारुष्यादिव्यवहारेषु प्रकृतधनसमदण्डदानस्य तद्द्विगुणदानस्य चासंभवाच्चत्यर्थः. ११ तत्समं व्यवहारतुल्यम् . १२ अनुवाद इति । तद्यवहारे दण्डस्य विशिष्यविहितत्वेन प्राप्तत्वाद्विध्यसंभवेन पूर्वार्धेन तस्य सर्वस्य सामान्येनानुवाद इत्यर्थः. १३ प्रागुक्तनिमित्तान्यनिमित्तकोऽत्र प्राणनाशो ग्राह्यः.
या० १४
For Private And Personal Use Only