________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
. याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
दुष्टलक्षणमाह
देशाद्देशान्तरं याति सृकिणी परिलेढि च । ललाटं विद्यते चास्य मुखं वैवर्ण्यमेति च ॥१३॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाकक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥ १४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाकायकर्मभिः।
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ ॥ मनोवाकायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृति विकारं याति गच्छति असावभियोगे साक्ष्ये वो दुष्टः परिकीर्तितः । तां विकृति विभज्य दर्शयति । देशाद्देशान्तरं याति न कचिदवतिष्ठते । सृकिणी ओष्ठपैयन्तौ परिलेडि जिह्वाग्रेण स्पर्शयति घयतीति कर्मणो विकृतिः । अस्य ललाटं विद्यते स्वेदबिन्द्वङ्कितं भवति, मुखं च वैवयं विवर्णत्वं पाण्डुस्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यरस्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति, चक्षुर्वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् । तथा ओष्ठौ निर्भुजति वक्रयतीत्यपि कायस्य विकृतिः। एतच्च दोषसंभावनामात्रमुच्यते न दोषनिश्चयाय । स्वाभाविकनैमित्तिकविकारयोविवेकस्य दुर्जेयत्वात् । अथ कश्चिनिपुणमतिर्विवेकं प्रतिपधेत तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गादवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ १३ ॥ १४ ॥ १५॥
संदिग्धार्थ स्वतत्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किचिद्धीनो दण्ड्यश्च स स्मृतः ॥ १६ ॥ किंच । संदिग्धमर्थमधुमणेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्न साधनेन वा साधितं याच्यमानो निष्पतेत्पलायते, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति सोपि हीनो दण्ड्यश्च स्मृत इति संबध्यते । 'अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव माभूदिति द. ण्ड्यग्रहणम् । दण्ड्यश्चापि 'शास्योऽप्यन्न हीयत' इत्यर्थादहीनत्वदर्शनादन तन्माभूदिति हीनग्रहणम् ॥ १६ ॥
१ याति गच्छति गच्छति यातीत्यर्थः । श्लोके गच्छेदित्यस्य लिङर्थाविवक्षायां तस्य पूर्व विवरणं प्रदर्य ततो यातीति प्रदर्शनीयम् . २ वा चार्थे. ३ पर्यन्तौ प्रान्तौ. ४ तथा वैवा दिवत्. ५ विवेकस्य भेदस्य. ६ दुर्शानत्वात् ग. ७ यत्किचिद्विकारात्. ८ ऋणग्राहिणा. ९ द्विविधोपीत्यर्थः
For Private And Personal Use Only