________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता ।
१२५ .
त्यभियोगरूपं तथापि स्वापराधपरिहारात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनमधिकृत्योक्तम्-
अथ अर्थिनं प्रत्याह
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥
1
अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नामियोजयेत् । किंच । उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन प्रापयेत् । एतदुक्तं भवति - यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तेथैव भाषाकालेऽपि लेखनीयं नान्यथेति ॥ ननु - 'प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' इत्यत्रैवेदमुक्तं किमर्थं पुनरुच्यते नोक्तं विप्रकृतिं नयेदिति । उच्यते- 'यथाssवेदितमर्थिना' इत्यनेनाssवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयं । ऐकस्मिन्नपि पैदे न वस्त्वन्तरमित्युक्तम् । यथानेन रूपकशतं वृद्ध्या गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं वृद्ध्या गृहीतमिति न वक्तव्यम् । तथा सति पैदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति । नोक्तं विप्रकृतिं नयेदित्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्ध्या गृहीत्वाऽयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धमिह तु पदान्तरगमनं निषिध्यत इति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन - 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पैदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥' इति । हीनवादी दण्ड्यो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारार्थमेवायमभियोगमनिस्तीर्येत्याद्युपदेशो न प्रकृतार्थसिद्ध्यसिद्धिविषयः । अतएव वक्ष्यति - 'छलं निरस्य भूतेन व्यवहारान्नयेनृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयत एव । यथाह नारदः - 'सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्री भूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥' इति । अस्यार्थः - सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृतादर्थाद्धीयत इत्यर्थः । अत्रोदाहरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्डयोsपि यथा प्रकृतादर्थान हीयते एवं सर्वेष्वर्थविवादेष्विति । अर्थविचादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति ग•
१ तथैवेति । अन्यथाऽन्यथावादित्वेन भङ्गप्रसङ्गात् . २ ऋणादानादिव्यवहारविषये. ३ अत्र प्रकरणे पदशब्दो विषयवाची. ४ विषयान्तरं प्रत्यगमनेऽपीत्यर्थः ५ पदान्तरं प्रति गमनाद्वस्त्वन्तरगमनाचेत्यर्थः ६ सिद्ध्यसिद्धीति । हीनवादित्वे प्रकृतार्थासिद्धिस्तथात्वे तत्सिद्धिरित्यर्थः ७ पूर्वभूतेन सत्येन व्यवहारेण. ८ हीनवादी दण्ड्य एव, न प्रकृताश्रद्धीयत इत्येतत् ९ मन्युकृते वाक्पारुष्यदण्डपारुष्यादिव्यवहारे. १० एवं शाब्दमामुक्त्वा द्वितीयमसंपदध्वनितमाह अर्थेति.
For Private And Personal Use Only