________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥ ततः किमित्यत आह
तसिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा । तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निवृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमामोतीति संबन्धः ॥ एवं व्यवहाररूपमभिधायोपसंहरति
चतुष्पाब्यवहारोज्यं विवादेषूपदर्शितः ॥ ८॥ व्यवहारान्नृपः पश्येदियुक्तो व्यवहारः सोऽयमित्थं चतुष्पाच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः । तत्र प्रत्यर्थिनोऽग्रतो लेख्यं इति भाषापादः प्रथमः। श्रुतार्थस्योत्तरं लेख्यमित्युत्तरपादो द्वितीयः । ततोऽर्थी लेखयेत्सद्य इति क्रियापादस्तृतीयः । तसिद्धौ सिद्धिमामोतीति साध्यसिद्विपादश्चतुर्थः । यथोक्तम्-'परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्या. याब्यवस्थानं व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । भाक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते॥'इति। संप्रतिपत्त्युत्तरे तु साधनानिर्देशाद्भा. पार्थस्यासाध्यत्वाञ्च न साध्यसिद्धिलक्षणः पादोऽस्तीति द्विपात्वमेव । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानात् व्यवहर्तुः संबन्धाभावाच न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥
इति साधारणव्यवहारमातृकाप्रकरणम् ।
असाधारणव्यवहारमातृकाप्रकरणम् २ एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिब्यवहारविशेषे कंचिद्विशेष दर्शयितुमाह
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुज्यत इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनमभियोक्तारं न प्रत्यमियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं प्र.
१ ततः साधनलेखनोत्तरम्. २ मुख्यपादत्वासंभवादाह चतुरंशेति. ३ अभिधीयते ऋणादानादिषु वक्ष्यमाणेषु. ४ लक्षणोपि इति पाठः. ५ प्रत्याकलितस्य पौनःपुन्येन विचारणस्येत्यर्थः. ६ अभियुज्यते दोषविषयीक्रियतेऽनेनेति शेषः. ७ सत्यं गृहीतं प्रति. दत्तं चेति कारणोत्तरस्य अनेन दत्तं स्थितं मया पुनर्दत्तमित्येवं प्रत्यभियोगरूपत्वमित्यर्थः
For Private And Personal Use Only