________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता |
१२३
रणं मिथ्योत्तरमिदम् । अत्रच प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् ॥ ननु 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासह - चरितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् ॥ प्रसिद्धे कारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम् - यथा सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम् — 'मिथ्या कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम् - यथा रूपकशतं धारयतीत्यभियोगे मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतिवादिन एव क्रिया - 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्' इति वचनात्, शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात् संप्रतिपत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदातु कारणप्राङ्न्यायसंकरः- यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादि - नो यथास्वीति न क्वचिद्वादिप्रतिवादिनोरेकस्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥
,
एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या - दित्यपेक्षित आह
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥
तत उत्तरानन्तरंमर्थी साध्यवान् सद्यएवानन्तरमेव लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्ययैवार्थी जात इति सएव साधनं लेखयेत् । कारणोत्तरेsपि कारणस्यैव साध्वात्कारणवाद्येवार्थीति सएव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी सएव साधनं निर्दिशेत् । ततोऽर्थी लेखयति वदता अयैव लेखयेनान्य इत्युक्तम् । अतश्च संप्रतिपत्युत्तरे साध्याभावेन भाषोत्तत्वादिनोर्द्वयोरप्यर्थित्वाभावात्साधन निर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम् — 'प्राङ्न्याय कारणोक्तौ
१ प्रतिवादिना तस्यैवोक्तत्वमभिप्रेत्य प्राधान्यादरेण शङ्कते नन्विति २ सत्यं गृहीतं प्रतिदत्तं चेत्येवंरूपे प्रागुक्त. ३ सत्यस्यापि ४ निवेशिते लेखिते. ५ अर्थ्यत इत्यर्थः साध्यं स यस्यास्तीत्यर्थी. ६ प्रमाणं लिखितादि वक्ष्यमाणम् ७ निर्दिशे लेखयेत्' ८ अर्थ्येवेति आक्षेपादेव कर्तृलाभे तदुक्तिर्नियमार्थेति भावः . ९ तादृशोत्तरदानेनैव.
For Private And Personal Use Only