________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पाण्डुलेखेन लिखित्वा ओवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् । -'पूर्वपक्षं स्वभावोक्तं प्राविवाकोऽमिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥' इति कात्यायनस्मरणात् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातः परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्-'शोधयेत्पूर्ववादं तु यावनोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥' इति । पूर्वपक्षमशो. धयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा रागाल्लोभादित्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥ एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वोक्तस्य निराकरणं तदुच्यते । यथाह-'पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥' इति । पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्टवि. भक्तिसमाससाध्याँहाराभिधानेन वा अन्य देशभाषाभिधानेन वा यत् व्याख्येयार्थं न भवति तत्सदुत्तरम् ॥ तश्च चतुर्विधम्-संप्रतिपत्तिर्मिथ्या अंत्यवस्कन्दनं पूर्वन्यायश्चेति । यथाह कात्यायन:-'सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा । रूपकशतं मह्यं धारयतीत्युक्ते सत्यं धारयामीति । यथाह-'साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता'इति । मिथ्योत्तरं तु नाहं धारयामीति । तथाच कात्यायन:-'अभियुक्तोऽभियोगस्य यदि कुर्यादपतवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥' इति ॥ तच्च मिथ्योत्तरं चतुर्विधम्-'मिथ्यैः तमाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥' इति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । यथाह नारद:-'अर्थिना लेखिनो योऽर्थः प्रत्यर्थी यदि तं तथा--प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्रात्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण
१ पाण्ड्विति खडीति भाषाप्रसिद्धः. २ आवापेति न्यूनाधिक्यपरिहाराय प्रक्षेपनिष्कासनाभ्यामित्यर्थः. ३ सहजोक्तं न तु छलादिना. ४ उत्तरेणावष्टब्धस्य प्रतिबद्धस्य पूर्ववादस्य शोधनं भवेदित्यर्थः. ५ उत्तरत्र अग्रे. ६ दुःश्लिष्टमसंबद्धम् , अश्लिष्टमिति पाठः. ७ अध्याहारेण सहितं साध्याहारम्. ८ अदेशभाषेति पाठः. ९ प्रत्यवस्कन्दनं कारणोत्तरम्. १० प्रतिपत्तिः संप्रतिपत्तिः सत्योत्तरमित्यनन्तरम्. ११ अभियुक्तस्य ग. १२ ण्यन्तस्येदं रूपम्. १३ तथाप्रपद्य तथैवाङ्गीकृत्येत्यर्थः.
For Private And Personal Use Only