________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १ ] मिताक्षरासहिता।
१२१ पराजित इति । उक्तंच कात्यायनेन- आचारेणावसनोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥' इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानामुत्तरवदवभासमानानामुत्तराभासस्वमर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे-'संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षकदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्व्यस्तपदमव्यापि निगूढार्थ तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥' इति । तत्र संदिग्धंसुवर्णशतमनेन गृहीतमित्युक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृतादन्यत्-यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पं-सुवर्णशता. भियोगे पञ्चशतं धारयामीति । अतिभूरि-सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षकदेशव्यापि-हिरण्यवस्वाधभियोगे हिरण्यं गृहीतं नान्यदिति । व्यस्तपदं-ऋणादानाभियोगे पदान्तरेणोत्तरम् , यथा सुवर्णशताभियोगे अ. नेनाहं ताडित इति । अव्यापि-देशस्थानादिविशेषणाव्यापि, यथा मध्यदेशे वाराणत्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते, क्षेत्रमपहृत. मिति । निगूढार्थ-यथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्र ध्वनिना प्राशिवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धम्-यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं-दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, भदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणाभियोगे गृहीतशतवचनात् सुवर्णानां पितुर्न जानामीति । अत्र गृहीतशतस्य पितुर्वचनारसुवर्णानां शतं गृहीतमिति न जानामीति । असारं-न्यायविरुद्धम्, यथा सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिदत्ता न मूलं गृहीतमिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । यथाह कात्यायनः–'पक्षकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ॥' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्'नचैकस्मिन्विवादे तु क्रिया स्थाद्वादिनोयोः । नचार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोईयोरपि क्रिया प्रामोति–'
मिर्ध्या क्रिया पूर्ववादे कारणे प्रतिवादिनि' इति स्मरणात् । तदुभयमेकस्मिन्व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं चानेन गृहीतमित्यभियोगे सुवर्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्-'नन्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम्'
१ व्यवहारेण पराजितोऽपि. २ अर्धन्यूनतयात्यल्पत्वमस्य. ३ अन्यत् पक्षकदेशव्यापि चेत्यर्थः. ४ व्यस्तपदं असंबद्धपदकम्. ५ विन्ध्यहिमाचलयोर्मध्यं मध्यदेशः. ६ अन्तर्भावितण्यर्थमिदम्. ७ ध्वनिना किमादिबोध्येन. ८ न वादिद्वयपरत्वमिति सूचयितुं मिथ्येति । मिथ्योत्तरे इत्यर्थः । पूर्ववादे कर्मण्यणं पूर्ववादिनीत्यर्थः. ९ कारणे कारणोत्तरे. १० तयो. मिथः संकरे वित्यर्थः. ११ तयोरुकावित्यर्थः । नेदं प्रत्येकपरम् । करणांशे 'कारणे प्रति. वादिनि' इत्यनेन सिद्धत्वात् । तस्मात्सांकर्यपरमेवेदम् । अतएव समासनिर्देशसंगतिरपि.
For Private And Personal Use Only