________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता ।
११९
स्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन्व्यवहारे यावदुपयुज्यते तत्र तावलेखनीयमिति तात्पर्यार्थः ॥ एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्ताः । - ' अप्रसिद्धं निरौबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥' इति । अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थं अभिधेयरहितं कचटतपगजडदवेत्यादि । निप्रयोजनं यथायं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्पकालत्वान्न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान्न दिव्यमिति । विरुद्धं यथाहं मूकेन शप्त इत्यादि । रराष्ट्रादिविरुद्धं वा - ' राज्ञा विवर्जितो यश्च यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरग्राममहाजन विरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥' इति ॥ यँत्तु – 'अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति' इति, तंत्र यद्यनेकवस्तुसंकीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका भनेन वृद्ध्या गृहीताः सुवर्ण चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिष्यत एव। किंतु क्रियाभेदात्क्रमेण व्यवहारो न युगपदित्येतावत् ॥ यथाह कात्यायनः - 'बेहुप्रतिज्ञं यत्कार्यं व्यवहारे सुनिश्चि तम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥' इति । तस्मादनेकपदसंकीर्णः पूर्वपक्षो युगपन सिद्ध्यतीति तस्यार्थः । अर्थिग्रहणात्पुत्रपित्रादिग्रहणं तेपामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात् ॥ - 'अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥' इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । ऐतश्च भूमौ फलके वा
१ कृष्णोदक्पाण्डित्यच्प्रत्ययो बहुव्रीहेः २ अत्र अप्रसिद्धादेः साधयितुमशक्यत्वादनिराकरणम् इति ख. पुस्तके विशेष: ३ पीडारहितमित्यर्थः ४ विनिगमनाभावादाह पुरेति. ५ अत्र 'एतेषां स्वभावेनैव निराकरणमिति न निराक्रियते । तत्र च अप्रसिद्धादीनां व्युत्पत्त्यर्धमुपादानं तदप्यनेकपदसंकीर्णस्य निराकरणं न क्रियते' इति ख. पुस्तके विशेषः ६ प्रकृari जनानां नगरस्थानाम् ७ अप्रसिद्धादीनां पक्षाभासत्वमिवानेकपदसंकीर्णपूर्वपक्षस्यापि तत्त्वमेव । अनेकैः पदैः संकीर्णो यः पूर्वपक्ष: प्रतिज्ञा सा न सिध्यति आभासरूपा भवतीति तदर्थप्रतीतेस्तन्निराकरोति यत्त्वित्यादिना. ८ तत्र पदशब्दः पद्यते ज्ञायते इति व्युत्पत्त्या किं वस्तुपर उत ऋणादानादिरूपव्यवहार विषयपरः । तत्र न तावदाद्ये पक्षाभा• सत्वमित्याह तत्रेति. ९ बहुप्रतिज्ञं बहुपूर्वपक्षम् १० पुत्रपौत्रादीनां क. ११ अर्थिवेदितमित्यर्थः.
For Private And Personal Use Only