________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
याज्ञवल्क्यस्मृतिः [व्यवहाराध्यायः प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह
प्रत्यार्थनोऽग्रतो लेख्यं यथावेदितमर्थिना।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ ६॥ अर्थते इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात्। -'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥' इति । आवेदनकाल एवार्तिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थकमित्यत आह -समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना-अर्थिप्रत्यर्थिनाम ब्राह्मणजात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्- 'अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिप्तं नि. खिलार्थ च देशकालाविरोधि च ॥ वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरक्षितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥' इति । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमानं लिखितं प्रत्यर्थिनोऽग्रतः समामा. सादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते ।-आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा इति वचनात् । अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे यसंख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्रव्यं तसंख्याकं ततस्तेन गृहीतं याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्सिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि यो.ज्यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते-'देशश्चैव तथा स्थानं सं. निवेशस्तथैव च । जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशस्तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्गिविष्टो गृहक्षेत्रादिः । जातिरर्थिप्रत्यर्थिनोर्ब्राह्मण
१ क्रियाद्वेषी कार्यद्वेषी. २ नोपस्थाता समीपे न तिष्ठन्. ३ आइतव्यपलापी ग. ४ वेलेति दिनमध्येऽपि प्रातरादिमुहूर्तरूपो वा कालविशेष इत्यर्थः. ५ अर्थवदिति । अर्थवत्प्र. योजनवत्, धर्मसंयुक्तं धर्मो गुणः अल्पाक्षरत्वप्रभूतार्थवत्त्वादिकस्तेन युक्तं, परिपूर्णमध्याहा. रानपेक्षं, अनाकुलमसंदिग्धाक्षरं, साध्यवत् सिषाधयिषितार्थसहितम्, वाचकपरं बहुव्रीहिगौ. णलाक्षणिकादिरहितं, प्राकृतार्थानुबन्धि पूर्वावेदितार्थानुरोधि. ६ साधने क्षमम् ख. ७ नियतार्थ ग. ८ इदमग्रे स्फुटीभविष्यत्यसाधारणव्यवहारमातृकाप्रकरणे. ९ पितृ इति लुप्तषष्ठीकं पृथक्पदं, पितुरिति पाठो वा.
For Private And Personal Use Only