________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
व्यवहारविषयमाह
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५॥ धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यदाज्ञे प्राडिवाकाय वा आवेदयति विज्ञापयति चेद्यदि तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविधः शङ्काभियोगस्तत्वाभियोगश्चेति । यथाह नारद:--'व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽसतां तु संसर्गातत्त्वं होढाऽभिदर्शनात् ॥' इति । होढा लोप्वं । लिङ्गमिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः । प्रतिषेधास्मको विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति च । उक्तंच कात्यायनेन-'न्याय्यं स्त्रं नेच्छते कर्तुमन्याय्यं वा करोति यः' इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनः (८४-७)-'तेषामायमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चाऽदानं संविदश्च व्यतिक्रमः। क्रयविक्रयानु. शयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । 'पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ इति ॥ एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारदः-'एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥' इति ॥ आवेदयति चेद्राज्ञे इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः (८४३)-'नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः । नच प्रापित. मन्येन ग्रसेतार्थ कथंचन ॥' इति ॥ परैरिति परेण पराभ्यां परैरित्येकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति ॥ यत्पुनः- एकस्य बहुभिः सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । आवेदयति चेद्राक्षे इत्यनेनैव राज्ञा पृष्टो
१ लुप्यत इति लोप्नं चौर्यधनम्. २ लिङ्गं अव्यभिचरितं चिह्नमित्यर्थः. ३ ऋणादानं ऋणस्य न दानमदानम्, निक्षेपः स्वधनस्यान्यस्मिन्नर्पणम् , अस्वामिना कृतो विक्रयः, संभूयसमुत्थानं अनेकैमिलित्वा यत्र धनार्थ वाणिज्याधुदमः क्रियते. दत्तस्यानपकर्म अप्रत्यर्पणम्. ४ कर्मकरस्य भृतेरदानम् , संविदः कृतव्यवस्थाया अतिक्रमः, अनुशयः क्रयविक्रये च कृते पश्चात्तापाद्विप्रतिपत्तिः, स्वामिपशुपालयोर्विवादः. ५ ग्रामसीमाविप्रतिपत्तिः, वाक्पारुष्यमाक्रोशनादि, दण्डपारुष्यं ताडनादि, स्तेयं निवेन धनग्रहणम् , साहसं प्रसाधनहरणादि, स्त्रियश्च परपुरुषसंपर्कः. ६ स्त्रीसहितस्य पुंसो धर्मे व्यवस्था, विभागः पैतृकादिधनस्य, द्यूतं मक्षादिक्रीडा, पणव्यवस्थापनपूर्वकं पक्षिमेषादिप्राणियोधनं, समायस्य प्राणिद्यूतरूपत्वेन द्यूतावान्तरविशेषत्वादष्टादशसंख्योपपत्तिः. ७ स्मृतम् घ.
For Private And Personal Use Only