________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
सभ्यांश्वाह
श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२॥ किंच श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः। सत्यवादिनः सत्यवचनशीलाः। रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः। यद्यपि श्रुताध्ययनसंपन्ना इत्यविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः'स तु सभ्यैः स्थिरैर्युक्तः प्राजौंलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थशास्त्रवि. शारदैः ॥' इति । ते च त्रयः कर्तव्याः बहुवचनस्यार्थवस्वात्–'यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः' इति (११) मनुस्मरणाच । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह-'लोकवेदज्ञधर्मज्ञाः सप्त पञ्च योऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' इति । नच ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्नाः इत्यादि विशेषणमिति मन्तव्यम् । तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात् । विद्वद्भिरित्यनेन पुनरुक्तिप्रसङ्गाच्च । तथाच कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः-'सप्राशिवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः सभासदस्तु नियुक्ता इति भेदः । अतएवोक्तम्-'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयोऽन्यथा दोषः । उक्तंच कात्यायनेन-'अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः। तेऽपि तदागिनस्तस्माद्बोधनीयः स तैनृपः ॥' इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोषो नतु राक्षोऽनिवारणे-'संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥' इति (८।१३) मनुस्मरणात् । रिपो मित्रे चेति चकाराल्लोकरञ्जनार्थ कतिपयैर्वणिम्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः-'कुलशीलवयोवृत्तवित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ॥' इति ॥ २ ॥ व्यवहारानृपः पश्येदित्युक्तं तत्रानुकल्पमाह
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥ १ मौलैः सेवकत्वेन पितृपितामहादिपरम्परायातैः. २ च भेदः स्पष्टो ग. ३ सभा वा न प्रवेष्टन्यं ग.
For Private And Personal Use Only