________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहाराध्यायः।
साधारणव्यवहारमातृकाप्रकरणम् १ अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच्च दुष्टनिग्रहमन्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदेर्शनमन्तरेण संभवति । तब्यहारदर्शनमहरहः कर्तव्यमित्युक्तं-'व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम्' इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते
व्यवहारान्नृपः पश्येद्विद्वद्भिाह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः॥१॥ व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योपि तद्विरोधेन मदीयमिति । तस्थानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः। ब्राह्मणैर्न क्षत्रियादिमिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेवामप्राधान्यम् । 'सहयुक्तेऽप्रधाने' इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ( ८1१२८)-'अदण्ड्यान्दण्डयनराजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैवं गच्छति ॥' इति । कथम् । धर्मशास्त्रानुसारेण नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथाच वक्ष्यति-'निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥' इति । क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे 'क्रोधलोभविवर्जितः' इति वचनमादरार्थम् । क्रोधोऽमर्षः । लोभो लिप्सातिशयः ॥ १ ॥
१ दर्शनेन विनेति व्यवहारदर्शनं ग. २ 'विप्रतिपद्यमाननरान्तरगताशाताधर्मज्ञापनानुकूलो व्यापारो व्यवहारः । वादिप्रतिवादिकर्तृकः संभवद्भोगसाक्षिप्रमाणको विरोधकोटिव्यवस्थापनानुकूलो व्यापारो वा सः । संप्रतिपत्त्युत्तरे तु व्यवहारपदप्रयोगो भाक्त इति मदनरत्ने' इति न्य. म.-'वि नानार्थेऽव संदेहे हरणं हार उच्यते । नाना संदेहहरणाद्व्यवहार इति स्मृतः ॥ इति कातीयम्. ३ चाधिगच्छति ख. ४ अर्थशास्त्रं नीतिशास्त्रं औशनसादिकम्. ५ देशेति । आदिना देवगृहादिपरिग्रहः । पारिभाषिकधर्मेण व्यवस्थानं समयः. ६ वक्ष्यति अग्रे संविधतिक्रमप्रकरणे. (लो. १८६). ७ सामयिको धमों यावत्पथिकं भोजनं देयमसदरातिमण्डलं तुरकादयो न प्रस्थापनीया इत्येवंरूपः.
For Private And Personal Use Only