________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तम साहससंज्ञो वेदितव्यः । तदर्धे मध्यमः तस्य साशीतिपणसहस्रस्याधं चत्वारिंशदधिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहससंज्ञः स्मृत उक्तो मन्वादिभिः । यत्तु – 'पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः' इति ( ८१३८ ) मनुनोक्तं तत्पक्षान्तरम मतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥
दण्डभेदानाह
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ ३६७ ॥ धिग्दण्डो धिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः । धनदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिजीवितान्तः । एते चतुविधा दण्डाः व्यस्ता एकैकशः, समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः'धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतःपरम् ॥' इति ॥ ३६७ ॥
दण्डव्यवस्था निमित्तान्याह
d
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ ३६८ ॥ यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनमेवं देशकालवयः कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाद्धिपूर्व सकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं धर्मो वेदितव्यः । 'राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेनृपः' इत्यत्र पृथक्नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्वादिति ॥ ३६८ ॥ इति श्रीपद्मनाभ भट्टोपाध्यायात्मजस्य श्रीमत्परमहंस परिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ सदाचारः प्रथमाध्यायः उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥
अस्मिन्नध्याये प्रकरणानि । १ उपोद्घातप्रकरणम् । २ ब्रह्मचारिप्रकरणम् । ३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्त्रा तकप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्मप्रकरणम् । १० श्राद्धप्रकरणम् । ११ गणपतिकल्पप्रकरणम् । १२ ग्रहशान्तिप्रकरणम् । १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकरणानि ॥
याज्ञवल्क्यमुनिशास्त्रगतेयं विवृतिर्न कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ १ ॥
For Private And Personal Use Only