________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१०७
ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः। एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिद्ध्येयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तरसंभवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्शनीयाभिप्रायेण । यातव्योच्छेत्तव्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषयाः अपितु सकललोकव्यवहारविषयाः। यथा-'अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वान्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥
संधि च विग्रह यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥ किंच। संधिर्व्यवस्थाकरणम् । विग्रहोऽपकारः। यानं परंप्रति यात्रा । आसनमुपेक्षा । संश्रयो बलवदाश्रयणम् । द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्संधिप्रभृतीन्गुणान्यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥ यानकालानाह
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः॥ ३४८॥ यदा परराष्ट्र सस्यैर्वीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं संपन्नं, शत्रुश्च हीनो बलादिभिः, आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा परराष्ट्रमात्मसास्कर्तुं व्रजेत् ॥ ३४८ ॥
प्राणिनामभ्युदयविनिपातानां देवायत्तत्वाद्यदि देवमस्ति तदा स्वयमेव परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पौरुषे न भविष्यति अतो व्यर्थ एवायं यात्राप्रयास इत्यत आह
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुष पौर्वदेहिकम् ॥ ३४९ ॥ कर्मसिद्धिः फलप्राप्ति:रिष्टानिष्टलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपितु पुरुषकारेऽपि । लोके तथादर्शनात् , चिकित्सकादिशास्त्रवैयर्थ्याच्च । अपिच पुरुषकाराभावे दैवमेव नास्तीत्याह-तत्र देवमिति । यतः पूर्वदेहार्जितं पौरुषमेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यत्नो विधातव्यः ॥३४९॥ इदानी मतान्तराण्याह
केचिदैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ॥ १ विग्रहं चैव यानमासनसंश्रयौ ख. २ कारेऽपि क.
For Private And Personal Use Only