________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
केचिदिष्टानिष्टलक्षणं फलं देवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । स्वमतमाहदेवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ३५०
Acharya Shri Kailassagarsuri Gyanmandir
एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३५१ ॥
नात्र तिरोहितमस्ति ॥ ३५१ ॥
लाभाय परराष्ट्रं गन्तव्यमित्युक्तं । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चेति । तेषु मित्रलाभो ज्यायान् । ततस्तत्प्रायुपाये यत्त्रो विधातव्यः । तु प्रायुपायश्च सत्यवचनमित्याह
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्यै रक्षेत्सत्यं समाहितः ।। ३५२ ॥
यस्मात् हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वामित्रलाभस्य || ३५२ ॥
इदानीं राज्याङ्गान्याह -
स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥
महोत्साह इत्याद्युक्तलक्षणो महीपतिः स्वामी । अमात्या मत्रिपुरोहितादयः । जनो ब्राह्मणादिप्रजाः । दुर्गे धन्वंदुर्गादि । कोशः सुवर्णादिधनराशिः । दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिमप्राकृतानि । एताः स्वाम्याद्या: राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ ॥
तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत्प्रयोजयेत् । हि यस्माद्धर्म एव दण्डरूपेण पूर्व ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा - ' दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' इत्यादिगौतमस्मरणात् ॥ ३५४ ॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ ३५५ ॥
१ विवृतमेतत्सविस्तरं ३२१ तमपद्यटिप्पन्याम्.
For Private And Personal Use Only