________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः मत्रमूलं यतो राज्यं तस्मान्मत्रं सुरक्षितम् ।।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ॥ ३४४ ॥ यस्मात्तैः सार्धं चिन्तयेद्वाज्यमित्याधुक्तं मन्त्रमूलं राज्यं तस्मान्मत्रं यत्नेन तथा सुरक्षितं कुर्यात्, यथास्य राज्ञः कर्मणां संधिविग्रहादीनामाफलोदयात् फलनिष्पत्तेः प्रोगन्ये मन्त्रं न जानन्ति ॥ ३४४ ॥
अरिमित्रमुदासीनोऽनन्तरस्तत्परः परः।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ ३४५ ॥ किंच । अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनश्च । ते च त्रयस्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्नपितृव्यतत्पुत्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन चापकृतम् । प्राकृतस्त्वनन्तरदेशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्त्रीयमातृष्वस्त्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृत मित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिममिप्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो चैन्तरितदेशाधिपतिः । अरिः पुनश्चतुर्विधः यातव्योच्छेत्तव्यपीडनीयकर्शनीयभेदेन । तत्र या. तव्योऽनन्तरभूमिपतिर्व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश्चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः।'निर्मूलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः कोशदण्डापकेर्शनात् ॥' इति । मित्रं द्विविधं बृंहणीयं कर्शनीयमिति । कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्शनीयम् । अनन्तरस्तत्परः पर इति प्राकृतारिमित्रोदासीनानाह । अनन्तरः प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत उदासीनः शेषाः पुनः प्रसिद्धत्वान्नोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदिकूमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिमिरुपायैर्वक्ष्यमाणैरनुसंधेयम् । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्त्रय आत्मा चैक इति त्रयोदशराजकमिदं राजमण्डलं पद्माकारम् । पाणिग्राहाक्रन्दासारादयस्त्वरिमित्रोदासीनेब्वेवान्तर्भवन्ति संज्ञाभेदमानं ग्रन्थान्तरे दर्शितमिति योगीश्वरेण न पृथगुक्ताः ॥३४५॥ सामादिमिरुपक्रमैरित्युक्तं, इदानी तानुपायानाह
उपाया: साम दानं च भेदो दण्डस्तथैव च ।।
सम्यक्प्रयुक्ताः सिध्येयुदण्डस्त्वगतिका गतिः ॥ ३४६ ॥ साम प्रियभाषणम् । दानं सुवर्णादेः । भेदो भेदकरणं तत्सामन्तादीनां पर. स्परतो वैरस्योत्पादनेन । दण्ड उपांशुप्रकाशाभ्यां धनापहारादिवधपर्यन्तो. - १ राज्यमतो मत्रं क. ग. २ प्राग्यावदन्ये ख. ३ घनन्तरदेशा क. मध्यन्तरदेशा ग. ४ व्योच्छेदनीय क. ५ पकर्षणात् ख. ६ रभिसंधेयं क. ७न पृथगुक्तम् ख. ८ स्यो त्पादनम् ख.
For Private And Personal Use Only