________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
९९ कीदृशं पुरोहितं कुर्यादित्याह
पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथवाङ्गिरसे तथा ॥३१३॥ पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैरारमसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञं ग्रहोस्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिमिरुदितैः शास्त्रोक्तैरुदितं समृद्धम् । दण्डनीत्यामर्थशास्त्रे कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥
श्रौतस्मार्तक्रियाहेतोवृणुयादेव चविजः।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भरिदक्षिणान् ।। ३१४ ॥ श्रौताग्निहोत्रादि-स्मार्तोपासनादिक्रियानुष्ठानसिद्ध्यर्थे ऋत्विजो वृणुयात् । यज्ञांश्च राजसूयादीन्विधिवद्यथाविधानं भूरिदक्षिणान्बहुदक्षिणानेव कुर्यात् ३१४
भोगांश्च देद्याद्विप्रेभ्यो वसनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥३१५ ॥ - किंच । ब्राह्मणेभ्यो भोगान् सुखानि तरसाधनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्मादेष राज्ञामक्षयो निधिः शेवधियब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दानप्राधान्यप्रतिपादनार्थ पुनर्वचनम् ॥ ३१५॥
अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥ ३१६ ॥ किंच । अग्नेः सकाशादग्निसाध्याभूरिदक्षिणादाजसूयादेरपि विप्राग्नौ हुतं श्रेष्ठमिहोच्यते । एतदस्कन्नं क्षरणरहितं अव्यथं पशुहिंसारहितं प्रायश्चित्तैरदूपितं प्रायश्चित्तरहितम् ॥ ३१६ ॥ वसूनि विप्रेभ्यो दद्यादित्युक्तं, कया परिपाट्या दद्यादित्याह
अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७॥ अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तस्परिपालयेत् स्वयमवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धि नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥
-
१ कर्मसु पुरो निहितं क. २ दत्त्वा विप्रेभ्यो ख. ३ अव्ययं ख. ४ प्रायश्चित्तायासरहितं ख. ५ वाणिज्यादिकया ग.
For Private And Personal Use Only