________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
अपरुषः परदोषा कीर्तनः । धार्मिको वर्णाश्रमधर्मान्वितः । न विद्यन्ते व्यसनानि यस्यासावत्र्यसनः । व्यसनानि चाष्टादश । यथाह मनुः (७/४७-४८ ) - 'मृगersक्षा दिवा स्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥' इति । तत्र च सप्त कष्टतमानि । यथाह (मनुः
७/५०- ० - ५१ ) - ( पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥' इति । प्राज्ञो गम्भीरार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयार्थगोपनचतुरः । स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्याङ्गेषु यत्परप्रवेशद्वार शैथिल्यं तत्स्वरन्धं तस्य गोप्ता प्रच्छादयिता । आन्वीक्षिक्यामात्मविद्यायां दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्यपशुपालनरूपायां धनोपचय हेतुभूतायां, त्रय्यां ऋग्यजुः सामाख्यायां च विनीतस्तत्तदभिज्ञैः प्रावीण्यं नीतः । यथाह मनुः (७१४३ ) - ' त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यो वार्तारम्भांव लोकतः ॥ ' इति । नराधिपो राज्याभिषिक्तः स्यादिति सर्वत्र संबन्धः ॥ ३०९ ॥३१०॥३११॥ एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह
समत्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ ३१२ ॥
महोत्साहादिगुणैर्युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् । प्राज्ञान्हिताहितविवेककुशलान् । मौलान्स्ववंशपरम्परायातान् । स्थिरान्महत्यपि ईर्षविषादस्थाने विकाररहितान् । शुचीन्धर्मार्थकाम भयोपधाशुद्धान् । तेच सप्ताष्टौ वा कार्याः । यथाह मनुः (७।५४ ) -- ' मौलशास्त्र विदः शूरान्लैब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥' इति । एवं मन्त्रिणः पूर्वं कृत्वा तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर्व्यस्तैश्च । अनन्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्यं विचिन्त्य ततः स्वयं बुद्ध्या कार्य चिन्तयेत् ॥ ३१२ ॥
१ आखेटकाख्यो मृगवधो मृगया, अक्षादिक्रीडा, दिवानिद्रा, परदोषकथनं, स्त्रीसंभोगः, मद्यपानजनितो मदः, नृत्यगीतवादित्राणि त्रीणि, वृथाभ्रमणं, इति दश. २ पैशुन्यमविज्ञातदोषाविष्करणं, साहसं साधोर्बन्धनिग्रहः, द्रोहरछद्मवधः, ईर्ष्यान्यगुणासहिष्णुता, असूया परगुणेषु दोषाविष्करणं, अर्थदूषणमर्थानामपहरणं देयानामदानं च, वाक्पारुष्यमाक्रोशादि, दण्डपारुष्यं ताडनादि, इत्यष्टौ . ३ साममय्यां ख. ४ च तद्विदः ख. ५ ततः परम् ख. ६ हर्षविकारस्थाने विषादरहितान् क. ७ मौलान्पितृपितामइक्रमेण सेवकान्. ८ लब्धलक्षान् लक्ष्यादप्रच्युतशरादीन्.
For Private And Personal Use Only