________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्याय:
अथ ग्रहशान्तिप्रकरणम् १२ 'ग्रहांश्चैव विधानतः । कर्मणां फलमामोति श्रियं चामोत्यनुत्तमाम्' इत्यनेन ग्रहपूजया कर्मणामविलेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ॥ २९५॥ श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्यादिवृद्ध्यर्थं प्रवर्षणं वृष्टिः । आयुरपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिरनवद्यशरीरस्वं एताः कामयत इति वृष्ट्यायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजा समाचरेयुः। तथाभिचरनपि अदृष्टोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहयज्ञं समाचरेत् ॥ २९५ ॥ ग्रहानाह
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः।
शुक्रः शनैश्वरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २९६ ॥ एते सूर्यादयो नवग्रहाः ॥ २९६ ॥ प्रहाः पूज्या इत्युक्तं, किं कृत्वेत्याह
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कायों ग्रहाः क्रमात् ॥२९७॥
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा। सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रम कार्याः । तदलामे स्ववर्णैर्वर्णकैः पटे लेख्याः । गन्धैर्मण्डलकेषु वा । गन्धैः रक्तचन्दनादिभिर्यथावर्ण लेख्या इत्यन्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा-'पद्मासनः पनकरः पद्मगर्भसमद्युतिः । संप्ताश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः ॥ श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदः स्याद्धरासुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमधुतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कायौँ साक्षसूत्रकमण्डलू ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्त. व्योऽर्कसुतः सदा ॥ करालवदनः खगचर्मशूली वरप्रदः । नीलेः सिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता १ सप्ताश्वः सप्तरज्जुश्व.क. २ नीलसिंहासनः क. ग.
For Private And Personal Use Only