________________
Shri Mahavir Jain Aradhana Kendra
९२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[ आचाराध्यायः
कृताकृतांस्तन्दुलांश्च पललौदनमेव च । मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ॥ २८७ ॥ पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि । मूलकं पूरिकांपूपांस्तथैवोण्डेरकस्रजः ॥ २८८ ॥ दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् । एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८९ ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्याश्च शिरसा भूमिं गत्वा - ' तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ' इत्यनेन मन्त्रेण विनायकं, – ' सुभगायै विद्महे काममालिन्यै धीमहि । तनो गौरी प्रचोदयात्' इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्ण कुशे शूर्पे निधाय चतुष्पथे निदध्यात् - 'बलिं गृह्णन्त्विमं देवा आदित्या वसवस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृम्भकाः सिद्धगन्धर्वा मायविद्याधरा नराः । दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः । मा विघ्नो मा च मे पापं मा सन्तु परिपन्थिनः ॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः ॥' इत्येतैर्मन्त्रैः ॥ कृताकृताः सकृदवहतास्तन्दुलाः । पलैलं तिलपिष्टं तम्मिश्र ओदनः पललौदनः । मत्स्याः पक्का अपक्काश्च । मांसमेतावदेव पक्कमपक्कं च । पुष्पं चित्रं रक्तपीतादिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपोऽस्नेहपको गोधूमविकारः । उण्डेरकस्रजः उण्डेरैकाः पिष्टादिमय्यस्ताः प्रोताः स्रजः । दध्यन्नं दधिमिश्रमन्नं । पायसं क्षैरेयी । गुडपिष्टं गुडमिश्रं शाल्यादिपिष्टम् । मोदकाः लड्डुकाः । अनन्तरं विनायकं तज्जननी मम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत् ॥ २८६—२८९ ॥ किं कृत्वेत्याह
1
दूर्वासर्षपपुष्पाणां दत्त्वार्ध्य पूर्णमञ्जलिम् ॥ २९० ॥ सकुसुमोदकेनायै दत्त्वा दुर्वासर्षपपुष्पाणां पूर्णमञ्जलिं दस्वोपतिष्ठेदिति गतेन संबन्धः ॥ २९० ॥
-
उपस्थान मन्त्र माह
रूपं देहि यशो देहि भगं भगवन् देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ।। २९१ ॥
१ पूष्पं तथैव ख. २ पिशाचा मातरोरगाः क. ३ माला विद्या. क. ४ पललं पिष्टं. क. ५ उण्डेरकाः क्षुद्रापूपा इति कौस्तुमे. ६ जयं देहि . ग. ७ भगवति. ख.
For Private And Personal Use Only