SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपति कल्पप्रक० ११ ] मिताक्षरासहिता । ८९ यविधहेतुपरिज्ञानात् । विनायको विघ्नेश्वरः पुरुषार्थसाधनानां कर्मणां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्यविधात सिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥ एवं विघ्नस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। २७२ ॥ काषायवाससचैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरूष्ट्रैः सहैकत्रावतिष्ठते ॥ २७३ ॥ व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर्मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वप्ने स्वप्नावस्थायां जलमत्यर्थमवगाहते स्रोतसा हियते निमज्जति वा । मुण्डितशिरसः पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवस्त्रप्रावरणांश्च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथान्त्यजैश्चण्डालादिभिः गर्दभैः खरैरुद्रैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छन्नात्मानं परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यते ॥ २७२ ॥ २७३ ॥ एवं स्वप्नदर्शनान्युक्त्वा प्रत्यक्ष लिङ्गान्याह विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ २७४ ॥ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी च न भर्तारमपत्यं गर्भमङ्गना ॥ २७५ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ २७६ ॥ विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न क्वचित्फलमाप्नोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्यपत्यम् । ऋतुमती गर्भम् । अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः । विनयाचारादियुकोsपि शिष्योऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबध्यते । वणिकू वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस्तत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्या जीवति स तत्र निष्फलारम्भश्चेत्ते नोपसृष्टो वेदितव्यः ॥ २७४ ॥ २७५ ॥ २७६ ॥ १ विधानसिद्धये . २ अनुमन्यते ग. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy