________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[ आचाराध्यायः
'मासवृद्ध्याभितृष्यन्ति दत्तैरिह पितामहाः' इत्यनेन पितॄणां श्राद्धेन तृप्तिर्भवतीत्युक्तं तदनुपपन्नम् । प्रातिस्त्रिकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृत्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह
वसुरुद्रादितिसुता पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः ।। २६९ ॥ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥ २७० ॥ नत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर्न शरीरमात्रं नाप्यात्ममात्रं किंतु शरीर विशिष्टा आत्मान उच्यन्ते । एवमधिष्ठातृदेवता सहिता एव देवदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वादयः पुत्रादिभिर्दत्तेनान्नपानादिना तृप्ताः सन्तस्तानपि देवदत्तादींस्तर्पयन्ति कर्तृश्च पुत्रादीन्फलेन संयोजयन्ति । यथा माता गर्भपोषणायान्यदत्तेन दोहदान्नपानादिना स्वयमुपभुक्तेन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति दोहदान्नादिप्रदायिनश्च प्रत्युपकारफलेन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृपितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदेवता: श्राद्धकर्मणि संप्रदानभूताः । किंतु मनुष्याणां पितॄन्देवदत्तादीन्स्वयं श्राद्धेन तर्पितास्तर्पयन्ति ज्ञानशक्त्यतिशययोगेन । किंच न केवलं पितॄंस्तर्पयन्ति अपितु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि राज्यं च । चकारात्तत्र तत्र शास्त्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वादयः प्रयच्छन्तीति ॥ २६९ ॥ २७० ॥
इति श्राद्धप्रकरणम् ।
अथ गणपतिकल्पप्रकरणम् ११
दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेषां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविघ्नेन भवतीत्यविघ्नार्थं कर्म विधास्यन् विघ्नस्य कारक - ज्ञापक हेतूनाह
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ।। २७१ ॥
. विनायकः कर्मविघ्नसिद्ध्यर्थमित्यादिनोभयविघ्नहेतुपरिज्ञानाद्विघ्नस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते । रोगस्येवोभ
१ शुभाशुभफलकर्मविशेषेण ग. २ गर्भधारणपोषणाय ग.
For Private And Personal Use Only