________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०] मिताक्षरासहिता। तद्वन्तः । स्वर्णरूप्ये हेमरजते । तव्यतिरिक्तं पुसीसकादि कुप्यकम् । ज्ञातिश्रेष्ध्यं ज्ञातिषूत्कृष्टत्वम् । सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः । एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशसु तिथिषु श्राद्ध दो यथाक्रममामोति। ये केचन शस्त्रहतास्तेभ्यः कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्याद्यदि ब्राह्मणादिहता न भवन्ति'समत्वमागतस्यापि पितुः शस्त्रहतस्य वै । एकोद्दिष्टं सुतैः कार्य चतुर्दश्यां महालयः ॥' इति स्मरणात् । समत्वमागतस्य सपिण्डीकृतस्य महालये भाद्रपदकब्णचतुर्दश्यां शस्त्रहतस्यैव श्राद्धं नान्यस्येति नियम्यते न पुनः शस्त्रहतस्य चतुदश्यामेवेति । अतश्च क्षयाहादौ शस्त्रहतस्यापि यथाप्राप्तमेव श्राद्धम् । नच भाद्रपदकृष्णपक्ष एवायं श्राद्धविधिरिति मन्तव्यम् –'प्रौष्ठपद्यामपरपक्षे मासि मासि चैवम्' इति शौनकस्मरणात् ॥ २६२ ॥ २६३ ॥ २६४ ॥ नक्षत्रविशेषात्फलविशेषमाह
स्वर्ग ह्यपत्यमोजश्च शौर्य क्षेत्रं बलं तथा । पुत्रं श्रेष्ठयं च सौभाग्यं समृद्धिं मुख्यतां शुभाम् ॥२६५॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ २६६ ॥ धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ २६७ ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । . .
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ २६८॥ कृत्तिकामादिं कृत्वा भरण्यन्तं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रम स्वर्गादीनायुःपर्यन्तान्कामानवाप्नोति, यद्यास्तिकः श्रद्दधानो व्यपेतमदमत्सरश्च भवति । आस्तिको विश्वासवान् । श्रद्दधान आदरातिशययुक्तः । व्यपेतमदमत्सरः मदो गर्वः मत्सर ईर्ष्या ताभ्यां रहितः । स्वर्ग निरतिशयसुखम् । अपत्यमविशेषेण । ओज आत्मशत्यतिशयः । शौर्य निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरम् । पुत्रो गुणवान् । श्रेष्ठ्यं ज्ञातिषु । सौभाग्यं जनप्रियता । समृद्विर्धनादेः । मुख्यता अध्यता । शुभं सामान्येन । प्रवृत्तचक्रता अप्रतिहता. ज्ञता । वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः। अरोगित्वं अनामययोगित्वम् । यशः प्रख्यातिः। वीतशोकता इष्टवियोगादिजनितदुःखाभावः । परमा गतिर्ब्रह्मलोकप्राप्तिः । धनं सुवर्णादि । वेदा ऋग्वेदादयः। भिषक्सिद्धिरौषधफलावाप्तिः । कुप्यं सुवर्णरजतव्यतिरिक्त ताम्रादि । गावः प्रसिद्धाः। अजाश्च अवयश्च अश्वाश्च । आयुर्दीर्घजीवनम् ॥ २६५॥२६६ ॥२६७ ॥२६॥
१ ससौभाग्यं क. २ श्रद्दधानश्चेत् ख. ३ स्वर्गोऽतिशयसुखं क. ४ अनामयित्वं ग.
For Private And Personal Use Only