________________
Shri Mahavir Jain Aradhana Kendra
८६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६९ ॥
किंच । खड्गो गण्डकस्तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षिकम् । मुन्यन्नं सर्वमारण्यं नीवारादि । लोहो रक्तश्छागस्तदामिषं लौहामिषम् । महाशाकं कालशाकम् । वार्षीणसो वृद्धः श्वेतच्छागः -- ' त्रिपिबं त्विन्द्रियक्षीणं वृद्धं श्वेर्तमजापतिम् । वार्षीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥' इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशन्ति सः त्रिभिः पिवतीति त्रिपिब: तस्य वार्षीणसस्य मांसम् । यद्ददाति गयास्थश्व यत्किंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्गङ्गाद्वारादिषु च — 'गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे । संनिहत्यां गयायां च श्राद्धमक्षय्यतां व्रजेत् ॥' आनन्त्यमक्षुते इति अनन्तफलहेतुत्वं प्राप्नोति । आनन्त्यमश्रुत इति प्रत्येकमभिसंबध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुकायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्रुत इति गतेन संबन्धः ॥ - अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया । - ' मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥' इति । अस्यार्थः— सुन्यन्नं नीवारादि यच्छ्राद्धयोग्यमुक्तं तद्ब्राह्मणस्य प्रधानं समग्रफलदम् । यच्च मांसमुक्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षौद्रमुक्तं तच्छूद्रस्य । एतत्रितयव्यतिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यश्च विहितं हविष्यं कालशाकादि तत्सर्वेषां समग्रफलदमिति ॥ २६० ॥ २६१ ॥
तिथिविशेषात्फलविशेषमाह
कन्यां कन्यावेदन पशून्वै सत्सुतानपि ।
द्यूतं कृषि वणिज्यां च द्विशफैकशफांस्तथा ॥ २६२ ॥ ब्रह्मवर्चखिनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा ॥ २६३ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ ॥
कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसंपन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । द्यूतं द्यूतविजयः । कृषिः कृषिफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चखिनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं
१ श्वेतं वृद्धमजापतिं ख. २ आनन्त्यफलं ख. ३ कृषि च वाणिज्यं द्विशफैकशर्फ तथा ख. ४ सन्मार्गगाः ग.
For Private And Personal Use Only