________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०] मिताक्षरासहिता।
सुतेन पार्वणमेव कर्तव्यम्-'एकोद्दिष्टं यतेनास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥' इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव-'अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः' इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोत्रीहियववद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थितो विकल्पोऽसत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ २५६ ॥ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिदमभिधीयते
पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ २५७ ॥ पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियं गवे अजाय ब्राह्मणाय वा तदर्थने पिण्डान्दद्यात् । अग्नावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेनोद्वासयेत् ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह
हविष्यानेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ २५८ ॥ ऐणरौरववाराहशाशैर्मासैर्यथाक्रमम् ।
मासवृद्धाभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥ हविष्यं हविर्योग्यं तिलबीह्यादि । यथाह मनुः (१२६७)-'तिलैबाहियवैर्मारैरनिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥' इति । तदनं हविष्यानं तेन मासं पितरस्तृप्यन्तीत्यनागतेनान्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्- 'संवत्सरं तु गव्येन पयसा पायसेन वा' इति (मनुः ३।२७१) स्मरणात् । मत्स्यो भक्ष्यः पाठीनादिस्तस्येदं मात्स्यम् । हरिणस्ताम्रमृगः । एणः कृष्णः।-'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्यायुर्वेदस्मरणात् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबन्धि औरभ्रम् । शकुनिस्तित्तिरिस्तत्संबन्धि शाकुनं । छागोऽजस्तदीयं छागम् । पृषञ्चित्रमृगस्तन्मांसं पार्षतम् । एणः कृष्णमृगस्तपिशितमैणम् । रुरुः शंबरस्तत्प्रभवं रौरवम् । वराह आरण्यसूकरस्तजं वाराहम् । शशस्येदं शाशम् । एभिर्मासैः पितृभ्यो दत्तैर्ह विष्यानेन वैमासमित्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या पितरस्तृप्यन्ति॥ २५८ ॥ २५९ ॥
खगामिषं महाशल्कं मधु मुन्यन्नमेव वा । लौहामिषं महाशाकं मांसं वांर्कीणसस्य च ॥ २६० ॥ .
१ फलैस्तथा ग. २ मासं प्रीयन्ते ख. ३ अनागतत्वेना. ग. ४ शाकुनं भक्ष्यपक्षिसंबन्धि क. ख.५ वाध्रीणसस्य क. ग.
For Private And Personal Use Only