________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १० ]
मिताक्षरासहिता |
८३
1
पुत्रासंनिधाने येन सगोत्रादिना दाहसंस्कारः कृतस्तेनैवादशाहान्तं तप्रेतकर्म कर्तव्यम् — 'असगोत्रः सगोत्रो वा स्त्री दद्याद्यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति स्मरणात् । शूद्राणामप्येतत्कर्तव्यममन्त्रकं द्वादशेऽह्नि – ' एवं सपिण्डीकरणं मन्त्रव शूद्राणां द्वादशेऽह्नि' इति विष्णुस्मरणात् । सपिण्डीकरणादूर्ध्वं सांवत्सरिकपार्वणादीनि पुत्रस्य नियमेनैव कार्याणि अन्येषामनियतानि ॥ २५५ ॥
-
एकोद्दिष्टकालानाह
मृतेऽहनि कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ।। २५६ ॥
मृतेऽहनि प्रतिमासं संवत्सरं यावदेकोद्दिष्टं कार्यम् । सपिण्डीकरणादूर्ध्वं प्र तिसंवत्सरमेकोद्दिष्टमेव कर्तव्यम् । आद्यं सर्वैकोद्दिष्टप्रकृतिभूतमेकोद्दिष्टमेकादशेऽहनि । मृत दिवसापरिज्ञाने तच्छ्रवणदिवसे अमावास्यायां वा कार्यम् । 'अपरिज्ञाते मृतेऽहनि अमावास्यायां श्रवणदिवसे वा' इति स्मरणात् । अमावास्यायामिति गमनमास संबन्धिन्याममावास्यायाम् - "प्रवासदिवसे देयं तन्मासेन्दुक्षयेsपि वा' इति स्मरणात् । मृतेऽहनीत्यत्राहिताग्नेर्विशेषो जातूकर्येनोक्त:'ऊर्ध्व त्रिपक्षाद्यच्छ्राद्धं मृतेऽहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादा हितानेजन्मनः ॥' इति । तत्र त्रिपक्षादर्वाग्यत्प्रेतकर्म तदाहदिवसादारभ्याहिताग्नेः कार्यम् । त्रिपक्षादूर्ध्वं यच्छ्राद्धं तन्मरणदिवस एवेत्यर्थः । अनाहिताग्नेस्तु सर्व मृताह एव । आद्यमेकादशेऽहनीत्याशौचोपलक्षणमिति केचित् । 'शुचिना कर्म कर्तव्यं' इति शुद्धेरङ्गस्यात्, अथाशौचापगम इति सामान्येन सर्वेषां वर्णानामुपक्रम्यैकोद्दिष्टस्य विष्णुना विहितत्वाच्च । तदयुक्तम्- 'एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं च पृथक्पृथक् ॥' इति पैठीनसिस्मरणविरोधात् - 'आयं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥' इति शङ्खवचनविरोधाच्च । सामान्योपक्रमं विष्णुवचनं दशाहाशैौचविषयमपि घटते इति । प्रतिसंवत्सरं चैवम् इति प्रतिसंवत्सरं मृतेऽहन्ये कोद्दिष्टमुपदिष्टं योगीश्वरेण । तथाच स्मृत्यन्तरम् - 'वर्षे वर्षे च कर्तव्या मातापित्रोस्तु सत्क्रिया । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥' इति । यमोऽप्याह - 'सपिण्डीकरणादूर्ध्वं प्रतिसंवरसरं सुतैः । मातापित्रोः पृथक्कार्य मे कोद्दिष्टं मृतेऽहनि ॥' इति । व्यासस्तु पार्वणं प्रतिषेधति - एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः । अकृतं तद्विजानीयासें भवेत्पितृघातकः ॥' इति । जमदग्निस्तु पार्वणमाह - 'आपाद्य च सपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ||' इति । शातातपोऽप्याह – 'सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं
1
१ तु कर्तव्यं क. ग. २ हनीति स्वाशौचोप क. ३ पृथक्कुर्यात् ख. ४ जानीयाद्भवेच्च ख.
For Private And Personal Use Only