________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
अक्सिपिण्डीकरणं यस संवत्सराद्भवेत् ।।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ २५५ ॥ __ संवत्सरादक्सिपिण्डीकरणं यस्य कृतं तस्य तदुद्देशेन प्रतिदिवसं प्रतिमासं वा यावत्संवत्सरं शक्त्यनुसारेणान्नमुदकुम्भसहितं ब्राह्मणाय दद्यात् । अक्सिंवत्सरादिति वदता सपिण्डीकरणं संवत्सरे पूर्णे प्राग्वेति दर्शितम् । यथाहाश्वलायन:-'अथ सपिण्डीकरणं संवत्सरान्ते द्वादशाहे वा' इति । कात्यायनोऽप्याह-'ततः संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा यदाचार्वाग्वृद्धिरापद्यते' इति । द्वादशाहे त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वेति चत्वारः पक्षा दर्शिताः । तत्र द्वादशाहे पितुः सपिण्डीकरणं साग्निकेन कार्यम् । सपिण्डीकरणं विना पिण्डपितृयज्ञासिद्धेः-'साग्निकस्तु यदा कर्ता प्रेतो वाप्यग्निमान्भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं पितुः ॥' इति वचनात् । निरनिकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा षोडशश्राद्धानि कृत्वा सपिण्डीकरणं कार्यम् , उत सपिण्डीकरणं कृत्वा स्वस्वकाले तानि कर्तव्यानीति संशयः । उभयथा वचनदर्शनात् । -'श्राद्धानि षोडशादत्त्वा नैव कुत्सिपिण्डताम् । श्राद्धानि षोडशापाद्य विदधीत सपिण्डताम् ॥' इति । षोडशश्राद्धानि च-'द्वादशाहे त्रिपक्षे च षण्मासे मासि चाब्दिके । श्राद्धानि पोडशैतानि संस्मृतानि मनीषिभिः ॥' इति दर्शितानि । तथा-'यस्यापि वत्सरादक्सिपिण्डीकरणं भवेत् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥' इति । तत्र सपिण्डीकरणं कृत्वा स्वकाल एवैतानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्रागनधिकारात् । यदपि वचनं 'षोडशश्राद्धानि कृत्वैव स. पिण्डीकरणं संवत्सरात्प्रागपि कर्तव्यम्' इति सोऽयमापत्कल्पः । यदा त्वापत्क. ल्पत्वेन प्राक्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यात् । यदा तु मुख्यकल्पेन स्वकाल एवं करोति तदाब्दिकं श्राद्धं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् । 'सपिण्डीकरणादाक्कुर्वन् श्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥' इति स्मरणात् । एतच्च प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वप्येकेनैव कृतेनालं न सर्वैः कर्तव्यम् ।-'नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥' इति सरणात् । इदं च प्रेतश्राद्धसहितं सपिण्डीकरणं असंन्यासिनां पुत्रादिभिर्नियमेन कर्तव्यम् । प्रेतत्वविमोक्षार्थत्वात् । संन्यासिनां तु न कर्तव्यम् । यथाहोशना-‘एकोद्दिष्टं न कुर्वीत य. तीनां चैव सर्वदा । अहन्येकादशे प्राप्ते पार्वणं तु विधीयते ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ॥' इति । १ करणं भवेत् ख. २ द्यते तदेति ख.
For Private And Personal Use Only