SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धप्रकरणम् १० ] मिताक्षरासहिता। ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । - एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।। २५४ ॥ . गन्धोदकतिलैर्युक्तं पात्रचतुष्टयं अयंसिद्ध्यर्थं पूर्वोक्तविधिना कुर्यात् । तिलयुक्तं पात्रचतुष्टयमिति वदता पितृवर्गे चत्वारो ब्राह्मणा दर्शिताः । वैश्वदेवे द्वौ स्थितावेव । अत्र प्रेतपात्रोदकं किंचिदवशेषंत्रिधा विभज्य पितृपात्रेषु सेचयेत् 'ये समानाः समनसः' इति द्वाभ्यां मन्त्राभ्याम् । शेषं विश्वेदेवावाहनादिविसर्जनान्तं पूर्ववत्पार्वणवदाचरेत् । प्रेताय॑पात्रावशिष्टोदकेन प्रेतस्थानब्राह्मणहस्तेऽयं दत्त्वा शेषमेकोद्दिष्टवत्समापयेत् । पित्र्येषु त्रिषु पार्वणवत् । एतत्सपिण्डीकरणमनन्तरोक्तमेकोद्दिष्टं च ततः प्रागुक्तं स्त्रिया अपि मातुरपि कर्तव्यं । एवं वदता पार्वणे मातुःश्राद्धं पृथक्कर्तव्यमित्युक्तं भवति । अत्र प्रेतशब्दं पितुः प्रपितामह विषयं केचिद्वर्णयन्ति । तस्य विष्वन्तर्भावेन सपिण्डीकरणोत्तरकालं पिण्डदानादिनिवृ. युपपत्तेः। समनन्तरमृतस्योत्तरत्र पिण्डोदकदानानुवृत्तेरन्तर्भावो न युक्तः। अतएवाह यमः-'यः सपिण्डीकृतं प्रेतं पृथपिण्डे नियोजयेत् । विधिनस्तेन भवति पितृहा चोपजायते ॥' इति । प्रकर्षण इतः प्रेत इति चतुर्थेऽपि प्रेतशब्दोपपत्तेः। 'प्रेतेभ्य एव निपृणीयात्' इति च प्रयोगदर्शनात् । अपिच-'सपिण्डीकरणं श्राद्धं देवपूर्व नियोजयेत् । पितॄनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत् ॥' इति सपिण्डीकरणोत्तरकालं प्रेतस्य श्राद्धादिप्रतिषेधो दृश्यते स चानन्तरमृतस्य न संभवति । अमावास्यादौ श्राद्धविधानात् । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इत्येतदपि वचनं चतुर्थस्य त्रिष्वन्तर्भाव एव घटते 'चतुर्थस्य पिण्डत्रयच्या. पित्वं पञ्चमस्य पिण्डद्वयव्यापित्वं षष्ठस्यैकपिण्डव्यापित्वं सप्तमे विनिवृत्तिः' इति । पितृपात्रेष्वित्येतदपि पितृमुख्यत्वादस्मिन्नेव पक्षे घटते नान्यथा, प्रपितामहप्रमुखत्वात् । तस्मारिपतृपात्रेषु तत्प्रेतपानं प्रसेचयेदिति, पितुः प्रपितामहपानं पित्रादिपात्रेषु प्रसेचयेदिति तदयुक्तम् । नह्यत्र पिण्डसंयोजनमुत्तरत्र पिण्डदानादिनिवृत्तिप्रयोजकम् , अपितु पितुः प्रेतत्वानिवृत्त्या पितृत्वप्राप्यर्थम् । प्रेतत्वं च क्षुत्तृष्णोपजनितात्यन्तदुःखानुभवावस्था। यथाह मार्कण्डेयः-प्रेतलोके तु वसतिर्नृणां वर्ष प्रकीर्तिता । क्षुत्तृष्णे प्रत्यहं तत्र भवेतां भृगुनन्दन ॥' इति । पितृत्वप्राप्तिश्च वस्वादिश्राद्धदेवतासंबन्धः। प्राक्तनैकोद्दिष्टसहितेन सपिण्डीकरणेन प्रेतत्वनिवृत्त्या पितृत्वं प्रामोतीत्यवगम्यते-'यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥' इति । तथा-'चतुरो निर्वपेत्पिण्डान्पूर्व तेषु समावपेत् । ततःप्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥' इ. त्यादिवचनात् । 'यः सपिण्डीकृतं प्रेतम्' इत्यनेनापि पृथगेकोद्दिष्टविधानेन पि. ण्डदान निषेधात्पार्वणविधानेन सहपिण्डदानमवगम्यते । तैच्च सांवत्सरिकपाक्षिकैकोद्दिष्टविधानेनापोद्यते । यदपि पुनः प्रेतं न निर्दिशेदिति, तदपि प्रेतशब्दं १ मृतस्य पिण्डोदक क. २ समानयेत् क., समापयेत् ख. ३ एतच्च ख. ४ विधानेनोपपद्यते क. विधानायोपपाद्यते ख. या० १० For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy