________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः नोच्चारयेत् अपितु पितृशब्दमेवेत्येवमर्थम् । नच प्रकर्षगमनात्तत्रैव प्रेतशब्दः । यतो विशिष्टदुःखानुभवावस्था प्रेतशब्देन रूढ्याभिधीयत इत्युक्तम् । योऽपि प्रमीतमात्रे प्रेतशब्दप्रयोगः सोऽपि भूतपूर्वगत्या । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इति च प्रथमस्य पिण्डस्य चतुर्थव्यापित्वात् द्वितीयस्य पञ्चमव्यापिस्वात् तृतीयस्य षष्ठव्यापित्वात् सप्तमे विनिवर्तत इत्येवमपि घटते । अपिच नि. वाप्यपिण्डान्वयेन न सापिण्ड्यं अव्यापकत्वात् अपित्वेकशरीरावयवान्वयेनेत्युक्तम् । पितृशब्दश्च प्रेतत्वनिवृत्त्या श्राद्धदेवताभूयंगतेषु वर्तत इति पितृपात्रेस्वित्यविरुद्धम् । तस्मादनन्तराचार्येण पूर्वपक्षद्वारेण परमतं दर्शितमित्यर्थः । मृतपात्रोदकस्य तत्पिण्डस्य च पितृपात्रेषु तत्पिण्डेषु च संसर्जनमिति स्थितम् । आचार्यस्तु परमतमेवोपन्यस्तवान् । एतच्च पितुःसपिण्डीकरणं पितामहादिषु त्रिषु प्रमीतेषु वेदितव्यम् । पितरि प्रेते पितामहे वा जीवति सपिण्डीकरणं नास्त्येव । 'व्युत्क्रमाच प्रमीतानां नैव कार्या सपिण्डता' इति वचनात् । यत्तु मनुवचनं (३।२२१)-'पिता यस्य निवृत्तः स्याज्जीवेञ्चापि पितामहः। पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥' इति, तदपि पितृशब्दप्रयोगनियमाय न पिण्डद्वयदानार्थम् । कथम् –'ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । पिता यस्य तु वृत्तः स्थाजीवेच्चापि पितामहः ॥' सोऽपि पूर्वेषामेव निर्वपेदित्यन्वयः। पक्षद्वयेऽपि कथं निर्वपेदित्याह--'पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम्' इत्याद्यन्तग्रहणेन सर्वत्र पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इत्येवं प्रयोगो न पुनः कदाचिदपि पितामहस्य प्रपितामहस्य वाऽऽदित्वं वृद्धप्रपितामहस्य तत्पितुर्वान्तत्वम् । अतश्च पितादिशब्दानां संबन्धिवचनत्वात् ध्रियमाणेऽपि पितरि पितुः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । पितामहे ध्रियमाणे पितामहस्य पितृभ्यः पितामहेभ्यः प्रपितामहेभ्य इति । अतश्च पिण्डपितृयज्ञे शुन्धन्तां पितर इत्यादि. मन्त्राणामूहो न भवति । यदपि विष्णुवचनं- 'यस्य पिता प्रेतः स्यात्स पि. तृपिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात्' इति । तस्यायमर्थः । पितामहे ध्रियमाणे प्रेते च पितरि पितुरेकं पिण्डमेकोद्दिष्टविधानेन निधाय पितुर्यः पितामहस्ततः पराभ्यां द्वाभ्यां दद्यात् । पितामहस्त्वात्मनः प्रपितामहः संप्रदा. नभूतः स्थित एवेति प्रपितामहाय ततः पराभ्यां द्वाभ्यां च दद्यादिति । शब्दप्रयोगनियमस्तु पूर्वोक्त एव । एवं गोब्राह्मणादिहतस्यापि सपिण्डीकरणाभावो वेदितव्यः । यथाह कात्यायन:-'ब्राह्मणादिहते ताते पतिते संगवर्जिते । ब्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥' इति । गोब्राह्मणहतस्य पितुः सपिण्डीकरणसंभवे तमुलंध्य पितामहादिभ्यः पार्वणविधानमनुपपन्नमिति सपिण्डीकरणाभावोऽवगम्यते । स्मृत्यन्तरेऽपि—'ये नराः संततिच्छिन्ना नास्ति तेषां सपिण्डता । न चैतैः सह कर्तव्यान्येकोद्दिष्टानि षोडश ॥' इति । मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा दातव्यमिति उभ१ अव्यापित्वादपि तु क. २ देवतामुपगतेषु ख.
-
For Private And Personal Use Only