________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
च्छादनदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः-'चन्दनकुङ्कुमकपूरागरुपद्मकान्युपलेपनार्थम्' इति विष्णुनोक्तम् । पुष्पाणिच-'श्राद्धे जात्यः प्रशस्ताः, स्युर्मल्लिका श्वेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्युक्तानि । वानि च-'उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥' न कण्टकिजम् । कण्टकिजमपि शुक्वं सुगन्धि यत्तदद्यात् । न रक्तं दद्यात् । रक्तमपि कुङमजं जलजं च दद्यात् इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णुनोक्तः-'प्राण्यङ्गं सर्व धूपार्थे न दद्यात् । घृतमधुसंयुक्तं गुग्गुलश्रीखण्डागरुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्खनोक्तः-'घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥' इति आच्छादनं च शुभ्रं नवमहतं सदशं दद्यादिति। एतच्च सर्व वैश्वदेवानुष्टानकाण्डमुदङ्मुखः कुर्यात् । पित्यं काण्डं दक्षिणामुखः । पथाह वृद्धशातातपः-'उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्या. पार्वणे सर्व देवपूर्व विधानतः ॥' इति ॥ २३ ॥
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ २३२ ॥ द्विगुणांस्तु कुशान्देवा ह्युशन्तस्त्वेत्यूचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ॥ २३३ ॥ ततो वैश्वदेवकाण्डानन्तरमपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कुशान्द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थमासनेषूदकपूर्वकं दत्वा पुनरुदकं दद्यात् । 'अपः प्रदाय दुर्भान्द्विगुणभुनानासनं प्रदायापः प्रदाय' इत्याश्वलायनस्सरणात् । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पित्र्ये च प्रतिपदार्थ प्रतिपादनार्थ द्रष्टव्यम् । अथ पितॄन् पितामहान् प्रपितामहानावाहयिष्य इति ब्राह्मणान्पृष्ट्वा आवाहयेति तैरनुज्ञातः 'उशन्तस्त्वा निधीमहि' इत्यनयर्चा पित्रादीनावाह्य 'आयन्तु नः पितरः' इत्यादिना मन्त्रेणोपतिष्ठेत ॥ २३२ ॥ २३३ ॥
अपहता इति तिलान्विकीर्य च समन्ततः । यवार्थास्तु तिलैः कार्याः कुर्यादादि पूर्ववत् ।। २३४ ॥ दत्त्वाऱ्या संस्रवांस्तेषां पात्रे कृत्वा विधानतः। पितृभ्यः स्थानमसीति न्युजं पात्रं करोत्यधः ॥ २३५ ॥ यवार्थाः यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽर्थ्यपात्रासादनाच्छादनान्तं पूर्ववत्कुर्यात् । तत्रायं विशेषः-तिलान् 'अपहता अ. सुरारक्षांसि' इत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु विष्वयुग्मकुशनिर्मितकूर्चान्तर्हितेषु 'शं नो देवीः' इति मन्त्रेणापः शिवा
१ अकण्टकिजं ख. २ कुशान्कृत्वा क. ३ दिगुणभुमान्कुशान्दत्वाफा-ख. ग.
For Private And Personal Use Only