________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्याय:
विद्रोग्यादीनां प्रतिषेधवचनमुक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहितानां प्रा. त्यर्थम् ॥ २२४ ॥ ..... एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह
निमन्त्रयेत पूर्वेधुर्ब्राह्मणानात्मवाशुचिः। .. तैश्चापि संयतैर्भाव्यं मनोवाकायकर्मभिः ॥ २२५ ॥
पूर्वोक्तान्ब्राह्मणान् श्राद्ध क्षणः क्रियतामिति पूर्वेधुनिमन्त्रयेत प्रार्थनया झणमभ्युपगमयेत् । अपरेधुर्वा । 'पूर्वेधुरपरेधुर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत ध्यवरान्सम्यग्विप्रान्यथोदितान् ॥' इति (३।१८७) मनुस्मरणात् । आत्मवान् शोकोमादादिरहितः सन् दोषवास भवति । यद्वा आत्मवासियतेन्द्रियो भवेत्। शुचिः प्रयतश्च । तैरपि निमत्रितैाह्मणैर्मनोवाकायव्यापारैः संयतैर्नियतैर्भवितव्यम् ॥ २२५॥
अपराह्ने समभ्यर्च्य स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेधूपवेशयेत् ।। २२६ ॥ अपराह्ने उक्तलक्षणे समभ्यर्च्य तान्निमन्त्रितान्ब्राह्मणानाहूय स्वागतवचनेन पूजयित्वा कृतपादधावनानाचान्तान् क्लोष्वासनेषु पवित्रपाणिः पवित्रपाणीनुपवेशयेत् । यद्यप्यत्र सामान्येनापराह्ने इत्युक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम् ।-'अहो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ मज्याझे सर्वदा यस्मान्मन्दीभवति भास्करः। तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ ऊर्व मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥' इति वचनात् । तथान्यदपि श्राद्धोपयोगि कुतपसंज्ञकमुक्तम् । -'मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः॥ पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥' इति ॥ २२६॥
युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तुते शुचौ देशे दक्षिणाप्रवणे तथा ॥२२७॥ दैवे आभ्युदयिके श्राद्धे युग्मान्समान्ब्राह्मणानुपवेशयेत् । कथम् यथाशक्ति शक्तिमनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ तिसृणां वा द्वौ । एवं पित्रादीनामेकैकस्य द्वौ द्वौ त्रयाणां वा द्वौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथक् तत्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान्विषमानुपवेशयेदिति संबध्यते । एतच्च परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिसे दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७॥ १ अवसर उत्सवो वा क्षणः ग. २ विज्ञेया क.
For Private And Personal Use Only