________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १० ]
चर्यानाह-
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ ॥
६९
रोगी महारोगोपसृष्टः । हीनमतिरिक्तं वा यस्यासौ हीनातिरिक्ताङ्गः । एकेनाक्ष्णा यः पश्यति स काणः । एतस्मादेवान्धबधिरविद्धं प्रजननखलेति दुश्चर्मप्रभृतयो निरस्ताः । पुनर्भूरुक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्णी ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोली - ' परदारेषु जायेते द्वौ सुतौ कुण्डगोpat | पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥' (मनुः ३ । १७४ ) इत्येवमुक्तलक्षणको । कुनखी कुत्सितनखः । श्यावदन्तकः स्वभावात्कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥
भृतकाध्यापकः क्लीवः कन्यादूष्यभिशस्तकः । मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ २२३ ॥
1
वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च योऽधीते सोऽपि । क्लीबो नपुंसकः । असद्भिः सद्भिर्वा दोषैर्यः कन्यां दूषयति स कन्यादूषी । असता सता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रध्रुक् मित्रद्रोही । परदोषसंकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परिवेत्ता | ज्येष्ठेऽकृतदारेऽकृताभिपरिग्रहे वा यः कनीयान्दारपरिग्रहमनिपरिग्रह
कुर्यात्स परिवेत्ता । ज्येष्ठस्तु परिवित्तिः । यथाह मनुः (३।१७१ ) - 'दाराग्निहोत्रसंयोगं यैः करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ * इति । एवं दातृयाजकावपि - 'परिवित्तिः परिवेत्ता यथा च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ इति ( ३।१७२ ) मैनुवचनात् ॥ २२३ ॥ मातापितृ गुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाच निन्दिताः ॥ २२४ ॥
विना कारणेन मातापितृगुरून्यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यापुत्रत्याग्यपि - ' वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' इति समान निर्देशात् । कुण्डस्यान्नं योऽश्नात्यसौ कुण्डाशी । एवं गोलकस्यापि – 'यस्तयोरन्नमश्नाति स कुण्डाशी प्रकीर्तितः ' इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्कित व देवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । 'अधाः सर्वेषु वेदेवि 'त्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्यतिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषां -
१ वृद्धप्रजनन ख. २ खलतिर्निष्केशशिराः खल्वाटः. ३ संकुचितनखः ख ४ कुरुते स्थिते क. ५ इति समानदोषश्रवणात् ग. ६ मातृपितृ ग.
यो
For Private And Personal Use Only