________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
10
स्तीति साधारणम्, अनाश्रितत्वं समवायस्थापि मुख्यवृत्तौ बायकोपपत्तेगांणवृत्त्याश्रयणेन सम्भाव्यते, न परमार्थत इति साधारणम् ।। द्रव्यषट्कसाधर्म्यम्
पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्वे ।
एवं पृथिव्यादीनां नवानां पदार्यान्तराद् व्यावृतं सावार्थमभिधाय पुनस्तेषां स्वभेदाद् व्यावृतं साधम्य दर्शयतिः पृथिव्युदकज्यललपवनात्ममनसाम् * इति । चार्थे द्वन्द्वः समासः । अनेकत्वञ्चापरजातिमत्त्वञ्चेत्यनेकत्वापरजातिमत्त्वे ।
__ अनेकत्वञ्च क्षित्माविशेषलक्षणयोगिनो व्यक्तिभेदः, अनेकत्वसंख्या वा। नाकाशादेर्व्यक्तिभेदो नानेकत्वसंख्या वा सम्भवतीति तस्माद व्यावृत्तिरिति ।
अनेकत्वादेवापरजातिमत्त्वम् । अपरजातियत्वापेक्ष वा पृथिवीत्वादिरूपा। सा विद्यते येषा तानि तदन्ति, तेषां भावोऽपरजातिमत्त्वम्, अपरजात्युगलक्षित: समवायः, समवेता वा अपरजातिरिति । द्रव्यपञ्चकसाधर्थम् क्षितिजलज्योतिरनिलमनसां क्रियावत्वमूत्वपरत्वापरत्ववेगवत्वानि ।
एवं - क्षितिजलज्योतिरनिलमनसाम् * साधर्म्य क्रियावत्त्वञ्च मूर्त्तत्वञ्च परत्वञ्चापरत्वञ्च वेगवत्त्वञ्चेति तथोक्तानि । तथा च क्रिया चलनरूपा, सा विद्यले येषां तानि तद्वन्ति, तेषां भावः क्रिमावत्त्वम्, समवेता क्रिया, तत्समवायो वा । तथा मूत्तिरव्यापि द्रव्यपरिमाणम्, सा विद्यते येषां तालि मूर्तानि, तेषां भावो मूत्वम् । समवेता मूर्तिस्तत्समवायो वा । मूर्त्तत्वादेव च परत्वापरत्वादिसद्भावः क्रियावत्त्वञ्चेति । परापराणां भावः परत्वापरत्वे यत्स दावे क्षित्यादिषु एरापरव्यवहार इति, समवेतो परत्वापरत्वगुणौ, तत्समवायो बा । बेगो विद्यते येषां तानि वेगवन्ति, तेषां भावो वेगवत्त्वम्, समवेतो वेगगुणस्तत्समवायो वा । एतानि च नित्यादिध्वेवेति नियम्यन्ते, न तु सर्वदा तेषु भवन्तीति। द्रव्यचतुष्टयसाधर्म्यम्
आकाशकाल दिगात्मनां सर्वगतत्वं परममहत्त्वं सर्वसंयोगिसमान देशत्वञ्च ।
एवम् * आकाशकालहिणात्मनाम् * सर्वगतत्वादि साधर्म्यम् । सर्वशब्दश्चानन्तरोक्तमूर्तेष्वेव वर्तते। सर्वेषु गताः सर्वगताः सर्वप्राप्ताः, तेषां भावः सर्वगतत्वम् । सर्वमूर्त
15
For Private And Personal Use Only