________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
नवद्रव्यसाधर्म्यम् भावात् । तथाहि, कार्येण विरुध्यन्ते शब्दबुद्ध्यादयो न सर्वे गुणाः, तथा कर्माण्यपि कार्येण विरुध्यन्ते, न कार्येणैव आश्रयविनाशेऽपि विनाशात् ।
न च पदार्थापेक्षयापि लक्षणविवक्षायां विपक्षकदेशे वर्त्तमानस्य नमः त्वम्। तथा कारणाविरोधित्वं यदि कारणेन न विरुध्यन्ते इति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वम्, कारणेन विनाशाभावः । स च आकाशादिष्वस्ति कारगाभावादिति पक्षे व्यापकस्यापि सतो न विपक्षाद् व्यावृतिरित्यलक्षणत्वम्। तथाहि, न कारणेन गुणा विनाश्यन्ते नापि कर्मेति ।
अथ कारणं न विरुन्धन्ति न विनाशयन्तीति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इति। अत्र नित्यद्रव्येषु कारणाभावात् कारणाविरोधित्वं कारणाविनाशकत्वं चिन्तनीयमिति । विपक्षकदेशे वर्तमानस्यागम-10 कत्वमेव । तथाहि, शब्दबुद्ध्यादेर्यद्यपि कारणविनाशकत्वं तथापि न रूपादीनामस्तीत्यतिव्याप्तिः । एवं कर्मापि न कारणं विनाशयतीति ।
न च कार्याविरोधित्वेनाविशेषस्तत्र हि कार्येणाविनाशत्वं कारणधर्मः, कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इत्यपुनरुक्तम् । तदेवमुभयथापि विपक्षकदेशाव्यावृत्तः साधर्म्यमेव न तल्लक्षणमिति सिद्धम् ।
15 अन्त्यविशेषवत्त्वम् अनाश्रितत्व नित्यत्वे च अन्यत्रावयविद्रव्येभ्यः ।
एवमन्त्या विशेषा विद्यन्ते येषां ते तद्वन्तः, तेषां भावोऽन्त्यविशेषवत्त्वम्, अन्त्यविशेषोपलक्षितः समवायः समवेता वा अन्त्यविशेषाः।
तथा अनाश्रितत्वञ्च नित्यत्वञ्चेत्यनाश्चितत्वनित्यत्वे । अनाश्रितत्वमाश्रितत्वाभावः, नित्यत्वमविनाशित्वम्, उभयान्तानुपलक्षिता वस्तुसत्ता वा।
किमेतद्धर्मत्रयं सर्वेषु पृथिव्यादिष्वस्ति व्यापकञ्चेत्याह अन्यत्रावयविद्रव्येभ्यः इति । अवयविद्रव्याणि वर्जयित्वा नित्यद्रव्येष्वेवेति ।
ननु धर्मत्रयस्य सापवादत्वाविशेषेऽप्यन्त्यविशेषवत्त्वेनासमासकरणे किं प्रयोजनमिति। अन्त्यविशेषाणामव्यापकत्वेऽसाधारणताज्ञानेनैव । अनाश्रितत्वनित्यत्वयोश्चान्यत्रापि सद्भावात् साधारणत्वेनासमासकरणम् । तथाहि, नित्यत्वं गुणादिष्वप्य
20
For Private And Personal Use Only