________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
भवति सामान्यस्याभावेन समवायाभावात् । समवेतञ्च सामान्य विशेषणमुपलब्धम् ।
___ अथेदमेवाभावत्वानुरक्तमभावोऽभाव इति ज्ञानमभावत्वस्याभावेन समवायं दर्शयतीति चेत्, न । अनेकान्तात् । तथाहि, सामान्यादौ सत्सदिति ज्ञानं विना
सत्तासमवायमित्युक्तपूर्वम्। सामान्यवत्वे चाभावस्य भावरूपतैव स्यात् । एवञ्च 5 अनुत्पत्तेरनादित्वान्नित्यत्व विनाशस्य च आदिमत्वाइनित्यत्वं प्रसज्येत । प्रागभावस्य च नित्यत्वेन वस्तुपलम्भो न स्यात् । तयोः स्वरूपपरिहारस्थितिविरोधात् ।
न च अभावोपमर्दात्मनो भावस्योत्पत्तिर्युक्तेति प्रागिति विशेषणासम्भवः । प्रध्वंसानुत्पत्तिश्च, तस्य हि उत्पत्तिमदपेक्षितत्वात् । सम्भवेऽपि उत्पत्तिमत्त्वेन विनाशस्य
विनाशे भावग्रहणं स्यात् । यथा हि विनाशानुत्पत्तेः पूर्व भावो गृह्यते तद्वद् विनाशा10 पायेऽपि गृह्येत, विरोधाभावस्याविशेषात् । न चैतद दृष्टमतः सामान्यवद् व्यतिरेकः ।
न चोपाधि विना अभावोऽभाव इति ज्ञानं शक्यं भवितुम् । किन्तहि ? घटाभावः पटाभाव इति ज्ञानोत्पत्तेर्वलक्षण्यमेव । अथास्ति घटाभावो घटाभाव इत्यनुगतज्ञानमिति चेदत्राप्युपाधिवशादुपलक्षणत्यम्, सामान्यमेव ज्ञानहेतुरिति द्रष्टव्यं मुख्य बाधकोपपत्तेः।
न चैवं द्रव्यं द्रव्यमिति ज्ञाने किञ्चिद् बाधकमस्तीति सामान्यसिद्धेन सम्भवीदं 15 लक्षणमिति ।
एवं स्वश्चासावात्मा चेति स्वात्मा, तस्मिन्नारम्भकत्वम्, स्वात्मसमवेतकार्यजनकत्वम् समवायिकारणत्वमिति यावत् । तच्च पृथिव्यादिष्वेव भावादितरस्माद् भेदकम् । तथाहि, कार्यसमवायो नर्ते पृथिव्यादिभ्यः सम्भवतीति ।
तथा गुणा विशन्ते येषां ते गुणवन्तस्तेषां भावो गुणवत्त्वं गुणोपलक्षितः 20 समवायः, समवेता वा गुणाः । तेऽयसाधारणत्वाद् भेदकाः । यथा न गुणादिषु गुणवत्त्वं तथा वक्ष्यामो गुणसङ्करे [विसरे ] ।
तथा कार्यकारणयोरविरोध: कार्यकारणाविरोधः, स विद्यते येषां ते कार्यकारणाविरोधिनः, तेषां भावो कार्यकारणाविरोधित्वम् । कार्यकारणयोः परस्पराविरोधित्वमेक एव धर्मः।
यदि वा धर्मद्वयं कार्याविरोधित्वं कारणाविरोधित्वञ्चेति [तदा] कार्येण न विरुध्यन्ते न विनाश्यन्ते इति कार्याविरोधिनस्तेषां भावः कार्याविरोधित्वं कार्येण विनाशाभावः। स च सर्वेषु पृथिव्यादिष्वस्तीति साधर्म्यम् न पुनर्लक्षणं विपक्षैकदेशेऽपि
For Private And Personal Use Only