________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवद्रव्यसाधर्म्यम . नापि । अ ] समर्थविशेषणता। योगपदं विना हि असम्भवित्वाशङ्कानतिवृत्तेरिति । शेषं लक्षणदूषणस्य प्रतिसमाधानं वक्ष्यामः पृथिव्याधिकारे ।
लक्षणञ्च भेदार्थ व्यवहारार्थञ्चेति । तथाहि, पृथिव्यादीनीतरस्माद् भिद्यन्ते, द्रव्याणीति वा व्यवहर्त्तव्यानि द्रव्यत्वयोगात्, ये तु न भिद्यन्ते नापि द्रव्याणीति व्यवह्रियन्ते न ते द्रव्यत्वयुक्ता यथा रूपादयः, न च तथा न द्रव्यत्वयुक्तानि पृथिव्यादीनीति, 5 तस्मादितरस्माद् भिद्यन्ते द्रव्याणीति वा व्यवहर्त्तव्यानीति ।
__ एवं द्रव्यशब्दस्य प्रवृत्तौ पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो निमित्तमिति शब्दार्थनिरूपणपरत्वेनापि सम्बध्यते वाक्यम् । तथा च न सामान्यवत: शब्दार्थत्वे किञ्चिद् बाधकमस्तीति वक्ष्यामः ।
तथा अतीन्द्रियशक्तिप्रतिषेधार्थञ्च । तत्तु पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो 10 निजा शक्तिरिति। द्रव्यत्वस्य सामान्यत्वविचारः
अथ अकृतसमयस्य गोपिण्डेष्विवानुगताकारज्ञानस्यानुपपत्तेर्न द्रव्यत्वं सामान्यमस्तीति । यथा हि नारिकेलद्वीपवासिनो गोपिण्डोपलम्भादेकाकारता प्रतिभासते नवं पृथिव्यादिषूपलभ्यमानेष्विति । अथास्ति कृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानम्। तच्च 15 सङ्केतवशादेव भविष्यतीति ।
तदसत् । सामान्यस्य नियतव्यञ्जकव्यङ्ग्यतया व्यञ्जकानुपलब्धावप्यनुपलब्धेरभावात् । तथाहि, द्रव्यत्वं क्रियावत्त्वादिधर्मोपलम्भादभिव्यज्यते, अतिशयद्रव्याश्रितत्वोपलब्धेर्गुणत्वमेवं कर्मलक्षणोपलब्धः कर्मत्वमिति । शेषेष्वपि चिन्त्यम्, व्यञ्जकमप्यूह्यम्।
20 न च सर्वेषां व्यञ्जकोपलब्धिविद्यत इति सामान्यानुपलम्भो विघातक एव । कृतसमयस्य व्यञ्जकोपलव्धर्भवत्येव द्रव्यादिष्वनुगतज्ञानम् । सास्नादिना वा कृतसमयेनापि संवेद्यत इति युक्तं गवादिष्वनुगताकारविज्ञानमिति ।
यत्र च द्रव्यगुणकर्मात्मकं निमित्तं न सम्भाव्यतेऽबाधितानुगतायां संविदि तत्र सामान्यमेव निमित्तम् । न व द्रव्यादिष्वनुगतसवेदनेऽभाव इव किञ्चिद् बाधकमस्तीति। 25 तथाहि, अभावोऽभाव इत्यनुगतसंवेदनं द्रव्यगुणकर्मानिमित्तमपि न सामान्याद्
For Private And Personal Use Only