SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती विना समवायिकारणाभावाच्चेति । तथाहि, यत्र समवेतं कार्य तदवश्यं समवायिकारणम् , सामान्यस्य क्रम भाविषु स्वाबारेषु सर्वेषु समवायोपलब्धः सर्वं समवायिकारणमिति । सकलाधारनिष्पत्तावेवोत्पत्तिरिति पूर्वभाविपलम्भो न स्यात् । अथ सगादो भयसा स्वाधाराणामुत्पादादुत्पन्न सामान्यं क्रमभाविष्वाधारेषु 5 समवेष्यतीति चेत्, न । कार्यान्तरेष्वदर्शनात् । नहि रूपादिकार्य स्वावारेषु समवेत मुपजातमन्येन समवायवृत्त्या सम्बध्यमानं दृष्टमिति । न च क्रमेणोत्पद्यमानेष्वन्यत् सामान्यमिति वाच्यम् भेदे प्रमाणाभावात् । अभेदे त्वनुगतं ज्ञानमेव प्रमाणमिति वक्ष्यामः सामान्यपरीक्षायाम् । तदेवम् उत्पत्तिपक्षे बावकोपपत्तेर्वस्तूत्यत्त्यनन्तरं समभिव्यज्यत इत्यकार्यत्वा10 नित्यत्वं सिद्धम्। एवमर्थशब्दानभिधेयत्वञ्च स्वसमयार्थशब्दाभिधेयत्वाभाव इति । यद्यपि द्रव्यादेरेव कार्यत्वादिविधानाद् इहाकार्यत्वादिलभ्यते तथापि साधर्मस्य विवक्षितत्वादभिधानमिति । सामान्यारीनां कार्यत्वाद्यभावोऽपि साधर्म्यमिति । नवद्रव्यसाधर्म्यम् पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः, स्वात्मन्यारम्भकत्वम्, गुणवत्वम्, कार्यकारणाविरोधित्वम् ।। ___ एवं पदार्थानां साधर्म्यमभिधाय द्रव्याणां साधर्म्यनिरूपणार्थमाह पृथिव्यादीनाम् इत्यादि। पृथिवी आदिर्येषां तानि पृथिव्यादीनि तेषाम् । न ज्ञायते कियतामतः * नवानामपि द्रव्यत्वयोगः ४ साधर्म्यम् । द्रव्यत्वेन योगो द्रव्यत्वोपलक्षितः समवाय इति । यद्यपि समवायः पञ्चपदार्थवृत्तिस्तथापि द्रव्यत्वेनोपलक्षितोऽसाधारणत्वाद् भवत्येव लक्षणमिति । न च द्रव्याणां भावो द्रव्यत्वमित्युक्तेऽर्थादवगम्यते योग इति वाच्यम् । गम्यवृत्याश्रयणेन शब्दवृत्तिप्रतिषेधेऽतिप्रसङ्गात् । न चोपचरितभेदत्वाइवास्तवं लक्षणमिति दूषणम्, श्रोत्रस्येव विशिष्टार्थक्रियाजनकत्वात् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy