________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
10
पदार्थत्रयसाधर्म्यम् यद् वा बुद्धिविशेषणान्तरोपचरिता लक्षणम् इतरस्माद् भेदकम्। तच्चाविवक्षितविशेषं साधर्म्यम् । तथाहि, द्रव्यगुणकर्मस्वनुगतसामान्यवशाइनुगतज्ञानजनकत्वम्, सामान्ये तु स्वरूपतयैव तथात्यन्तव्यावृत्त्या विशेषेष्वेव । अयुत सिद्धेष्वबाध्यमानेहबुद्धिः समवाय एवेति, व्यावृत्तावपि बुद्धिवेद्यत्वं समानत्वात् साधर्म्यम् ।
एवं कार्याणां भावः कार्यत्वं तदभावोऽकार्यत्वं' स्वकारणसत्तासम्बन्धाभावः। 5
तथा कारणानां भाव: कारणत्वं तदभावोऽकारणत्वं समवाय्यसमवायिकारणस्वाभावः । निमित्तकारणत्वञ्च ज्ञानोत्पत्ताविष्यत एव ।
तथा न सामान्यविशेषवत्त्वमसामान्यविशेषवत्त्वम् अपरसामान्याभावः। न तदुपलक्षितः समवायः, समवाये तदभावप्रसङ्गात् । सकलाश्रयविनाशेऽपि सामान्यसमवाययोनं विनाशः।
नित्यानां भावो नित्यत्वमविनाशित्वम्, उभयान्तोपलक्षितसत्तासम्बन्धाभावो वा। तथाहि कार्यवस्तुनो विनाशित्वं दृष्टम्, सामा यादेश्चाकार्यत्वा रविनाशः। न चाश्रयविनाशाद् विनाशः, तस्य काश्रयविनाशेऽन्याश्रयान्तरे स्वानुरक्तप्रत्ययजनकत्वात् । तथा ह्येकाश्रयविनाशेऽयाश्रयान्तरे सत्ता सत्सदितिज्ञानहेतुः । समवायश्चेहप्रत्ययहेतुरिति । अनपोराश्रयविनाशान्न विनाशः ।
__ अनित्याश्रयं सामान्यं समस्ताश्रयविनाशेन निराधारस्वाभावाद विनक्ष्यतीति ? नैतदेवम्, अकार्यवस्तुत्वेन अवनाशित्वसिद्धेः समस्ताश्रयविनाशेऽप्यवस्थानमिष्यते। अत एव केवलमाश्रयाभावाद् गोत्वादिरूपतया न व्यपदिश्यत इति । अकार्यवस्तुनश्च विनाशे गगनादीनाम युच्छेदप्रसङ्गः।
___ अथानित्याश्रयस्याश्रयोत्पत्त्यनन्तरं रूपादिवदुपलम्भाद् असिद्धमकार्यत्वमिति । चेत्, न । उपलम्भस्योभयथाभावात् ।
न ज्ञायते किं वस्तूत्पत्त्यनन्तर मुत्पद्यते ? अथ अभिव्यज्यत इति ? उत्पादे बाधकोपपत्तेरभिव्यज्यत इतोष्यते। तथाहि, द्रव्यस्यैव समनायिकारणत्वविधानेन गुणकर्मणोस्तत्प्रतिषेधात् तदाधारस्योत्पत्त्यभावः । तद्यथा सामान्याधारस्य युगपदुत्पत्ति १. 'एवं कार्याणामभावोऽकार्यत्वम्' इति पाठो मातृकायाम् । २. 'कारणानामभावोऽकारणत्वम्' इति पाठो मातृकायाम् ।
15
For Private And Personal Use Only