SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती श्रितत्वमुक्तं तथापि द्रव्योपलक्षितस्येहाभिधानादपुनरुक्तमिति । सामान्यादित्रितपसाधर्म्यम् सामान्यादीनां त्रयाणां स्वात्मसत्त्वम्, बुद्धिलक्षणत्वम्, अकार्यत्वम् , अकारणत्वम् , असामान्यविशेषवत्वम् , नित्यत्वम् , अर्थशब्दाभिधेयत्वञ्चेति । इदानीं सामान्यादीनां नैकस्य द्वयोर्वा किं तहि ? त्रयाणामपि साधर्म्यम् । स्वात्मना साधारणधर्मेणोपचारनिमित्तेग सत्त्वं सत्सदिति प्रत्ययजनकत्वम्, मुख्ये ह्यनवस्थादिबाधकोपपत्तेः । अन्ये तु स्वात्मसत्त्वं सत्तानधिकरणानां सत्सदितिप्रत्ययजनकत्वमिति ब्रुवते । अत्र 10 हि निमित्तानभिधाने सतां भावः सत्त्वमिति न किञ्चिदुक्तं स्यात् । अथ सत्तानधिकरणानां स्वात्मना निमित्तेन सहसदिति प्रत्ययजनकत्वम् । तर्हि तस्यानुवृत्तिरूपतायां दोषोपपत्तेः, व्यावृत्त [रूप तायाञ्च अनुगतज्ञानजनकत्वं न स्याद् इत्युपचारनिमित्तत्वमेव न्याय्यम् । नन्वेवं सामान्यादिभूपचरितं सत्त्वं स्यात् ? इष्यत एव सत्त्वं सत्सदितिज्ञानजनकत्वमुपचरितम् । अथ उपचरितसत्त्वाभ्युपगमे परमार्थतोऽसत्त्वम् ? तदिष्टमेव । न परमार्थतः सामान्यादौ सत्सदितिज्ञानम् उपचाराभ्युपगमात् । अथ सत्तानधिकरणत्वे सामान्यादेरभावः स्यात्, तदसत् । असाधारणधर्माधिकरणतया प्रमाणसिद्धस्याभावाभ्युपगमे द्रव्यादिषु तथाभावः स्यात् । अतः सामान्यादावुक्तरूपे स्वरूपसत्त्वे न दोष इति । तथा बुद्धिलक्षणं येषां बुद्ध्या लक्ष्यन्त इति वा बुद्धिलक्षणास्तेषां भावो बुद्धिलक्षणत्वम् । सामान्यशब्देनाप्यदिनुगतव्यावृत्तेहबुद्धयन्यतमबुद्धिलक्षणत्वं विवक्षितमिति विज्ञातम्। अनुगता हि बुद्धिर्न विशेषे नापि समवाये, व्यावृत्ता च न सामान्य समवाययोः, तथेहबुद्धिर्न सामान्यविशेषेष्विति । व्यावृत्तत्वाद् वैवयं स्यादित्यन्यतमग्रहणम् । तच्च सर्वेषु समानत्वादेव साधर्म्यम् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy