SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पदार्थत्रयसाधर्म्यम् नुमीयमानो भवत्युपलक्षणमिति चेत्, तथापि विनष्ट इति स्यात्, न अनित्यमिति ? न । पर्यायत्वात् । तथाहि, अनित्या विषया विनाशिन इति व्यवहारः । यदि च अनित्यज्ञानेऽन्यन्निमित्तं न स्यात् प्रतिपद्येमभयान्तोपलक्षिता सत्ता विशेषणमिति । यथा अनुत्पत्तिविनाशयोरविद्यमानयोरपि कयाचिद् भङ्गया सत्तोपलक्षणत्वम्, तथा वस्तूपलक्षणतायामपि न किञ्चिद् बाधकमस्तीति । तथाहि प्रागभावः स्मर्यमाणः प्रध्वसाभावश्चानुमीयमानो वस्तुपलक्षणमिति । अथ विनाशानुत्पत्तिरनुत्पत्तिविनाशश्च विद्यमानत्वात् सत्ताविशेषणमिति चेत्, परमार्थस्य विशेषणत्वं तयोः कल्प्यतां किमतिप्रयासेन । अथानित्यज्ञातमभावानुरक्तं न भवतीति विशिष्टसत्ता विशेषणमुपकल्प्यते ? न । सत्तानुरागस्यानुपलब्धेः । केवलमनित्यत्वानुरक्तमनित्यमिति ज्ञानमुत्पद्यते । अनित्यत्वन्तु प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुन: सत्तेति उद्योतकर कल्पनायां ( न्या० वा० २२०१३ ) कल्पनागौरवं स्यादिति । प्रध्वंस एवानित्यत्वमितीयं भाष्यकारेणेति । प्रकृतेषु परिगणितानां न समवाय्यसमवायित्वस् कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्यः । Acharya Shri Kailassagarsuri Gyanmandir तथा कारणानां भावः कारणत्वम् । कारणत्वञ्च समवाय्यसमवायिकारणत्वम्, समवायिनोऽसमवायिनश्चात्मीयं स्वरूपम्, न निमित्तकारणत्वं सामान्यादिष्वपि भावात् । तच्च प्रतिनियतमप्यविवक्षित विशेषं साधर्म्यम् ! तत् किं सर्वेशमित्यत आह * अन्यत्र पारिमाण्डल्यादिभ्यः * इति । पारिमाण्डल्यादीनि वर्जयित्वा । परिमण्डलाः परमाणवः, तेषां भावः पारिमाण्डल्यम्, परमाणुपरिमाणम् । तच्च का गुपरिमाणोत्पत्तावकारणमिति परिमाणावसरे । आदिपदेन आकाशादिविभुद्रव्यम्, अन्त्यः शब्दः परत्वापरत्वपृथक्त्वाद्यकारणमिति । वक्ष्यामः प्रकृतेषु नित्यद्रव्यातिरिक्तानां साधर्म्यम् द्रव्याश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः । न च परं पूर्वसाधर्म्यम् । द्रव्याश्रितानां भावो द्रव्याश्रितत्वम् । तच्चान्यत्र नित्यद्रव्येभ्यस्तेषामाश्रयाभावात् । यद्यपि षण्णामाश्रितत्वाभिधानेन द्रव्यादीनामा For Private And Personal Use Only ३९ 5 10 15 20 25
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy