________________
Shri Mahavir Jain Aradhana Kendra
३८
5
10
15
20
www.kobatirth.org
व्योमवती
च्छन्द इत्युक्ते शब्दत्वादिभिर्व्यभिचार:, तन्निरासायार्थग्रहणम् । अर्थस्तु द्रव्यगुणकर्मात्मापि भवति । न च श्रोत्रग्राह्य इत्येतत्समुदितं शब्दस्य लक्षणम् ।
तथा धर्माधर्मौ कुर्वन्तीति धर्माधर्मकर्ता णि तेषां भावो धर्माधर्मकर्तृत्वम् । तच्च द्रव्यादीनामात्मीयं रूपं सहकारिविशेषश्च । तथा च द्रव्यमात्मा धर्माधर्मयोः समवायिकारणम् । सुवर्णाद्रिद्रव्यञ्च दानापहरणाभ्यां निमित्तकारणमिति । तथात्मान्तःकरणसंयोगोऽसमवायिकारणम् । शुद्धाभिसन्धिदुष्टाभिसन्धिश्च निमित्तकारणम् । एवं गीतिविशेषो नृत्तविशेषश्च यथासम्भवं निमित्तमिति । शेषमूह्यम् । ननु सुवर्णादिद्रव्यवज्जातिरप्यदृष्टकारणम् । अस्तु वा उपलक्षणेन चरितार्थत्वात् ।
कार्यत्वानित्यत्वे कारणवतामेव ।
कार्यत्वपदार्थ विचार:
Acharya Shri Kailassagarsuri Gyanmandir
कार्यत्वश्वानित्यत्वञ्च कार्यत्वानित्यत्वे, द्रव्यादीनां त्रयाणामपि । यदि नाम कारणं विद्यते येषां तानि कारणवन्ति तेषामेव पूर्वधर्मस्तु सर्वेषामिति लभ्यते । सापवादत्वाविशेषेऽपि कारणवत्त्व पदेनासमासकरणमनयोः साहचर्यज्ञापनार्थम् ।
एवेति ।
यद् वा कारणवतामकारणवताच कारणवतामित्यसमासकरणम् ।
अथ किमिदं कार्यत्वं नामेति ? स्वकारणसत्तासम्बन्धः तेन सता कार्यमिति व्यवहारात् ।
अभूत्वा भवनमित्येके । अत्राप्यभूत्वा पश्चाद भवनं स्वकारणैः सत्तया च सम्बन्ध
अनित्यत्वपदार्थविचारः
अनित्यत्वन्तु प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुसत्ता । अथ वस्तुसत्ताकाले प्रागभावप्रध्वंसाभावयोरभावात् कथमुपलक्षणत्वम् ? न च अनित्यव्यवहारे सत्ता विशेषणम्, विलक्षणत्वात् । तथाहि, सत्ताविशेषणं सत्सदिति ज्ञानमेव, ज्ञानान्तरे तु सत्तायाविशेषणत्वे सर्वत्र सत्तैव विशेषणं स्यादित्यतिप्रसङ्गः ।
तस्माद् यद् भुत्वा न भवति, आत्मानं जहाति, तदनित्यमिति केचित् । तदप्यसत् । विनाशस्य वस्तुकालेऽसम्भवित्वेन विशेषणत्वायोगात् । अथाविद्यमानोऽपि विनाशोऽ
For Private And Personal Use Only