________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७
पदार्थत्रयसाधर्म्यम् गुणादौ च गुणत्वादिनेति व्यतिरेकाविशेषेऽपि द्रव्येष्वेव द्रव्यत्वं समवेतमिति तत्रैव व्यवहारहेतुर्न गुणादौ। एवं गुणत्वादावधि नियतमिसमवायित्वं नियामकमिति वाच्यम्। समवायस्तु व्यतिरेकेऽपि समवाय्याधारतयावभासत इति समत्रायिव्यवहारहेतुरिति । अव्यतिरेके तु द्रव्यत्वादिस्वरूपाणामेकमितादात्म्येनाभेदाद् विभिन्नव्यवहारहेतुत्वं न स्यात् । भेदे वा धर्मिगस्तथाभावो विपर्यये तादात्म्वविरहात् । ।
न च द्रव्यादिज्ञानस्य कल्पनात्वमिति वाच्यम्, अर्थक्रियान्वयव्यतिरेकानुविधायिनः कल्पनात्वेऽतिप्रसङ्गाद् इति सिद्धं द्रव्यादिषु सत्तासम्बन्धात् सत्सदिति ज्ञानम् ।
अर्थक्रियाकारित्वेन सत्ताभ्युपगमे समानञ्चैतद् दूषणम् । किं सतामर्थक्रियाकारित्वम् ? अथ असतामिति ? सतामर्थक्रियाकारित्वे सत्ताभ्युपगमे तथा दुरुत्तरमितरेतराश्रयत्वम्। तथा ह्यर्थक्रियाजनकत्वेन सत्त्वम्, सतश्चार्य क्रियाजनकत्वमित्येका- 10 प्रसिद्धावित राप्रसिद्धिरिति । अब अर्थक्रियामन्तरेण सतोऽर्थक्रियाजनकत्वं तत्राप्ययं विकल्प इत्यनवस्था। असत एवार्थ क्रियाजनकत्वे खरविषाणादिपु तथाभावः स्यात् । अर्थक्रियायाश्च अर्थक्रियान्तरेण सत्त्वेऽनवस्था । अथ स्वरूपेणेति चेत्, पदार्थेषु तथाभावप्रसङ्गः
एतेन वर्तमानकालसम्बन्धित्वेन सत्त्वं प्रत्युक्तम् ।
अथ अर्थक्रियासामर्थ्यं सत्त्वम्। तस्थानेकपदार्थव्यापित्वेन सत्सदितिज्ञानजनकत्वे संज्ञाभेदमात्रम् । अव्यापित्वे त्वनुगतज्ञानजनकत्वं न स्यात् । तथा अर्थक्रियाजनकत्वे अर्थक्रियासमर्थ इति व्यवहारो न सत्सदिति, विलक्षणत्वादित्यलम् ।
अत: स्थितमेतद् द्रव्यादीनां सत्तासम्बन्ध इति ।
तथा सामान्यमेव द्रब्धव्यावृत्तिहेतुत्वाद् विशेषो द्रव्यत्वादिः, स विद्यते येषां 20 तानि सामान्यविशेषवन्ति, तेषां भावः सामान्यविशेषवत्त्वम् । समवेतः सामान्य विशेषस्तदुपलक्षितो वा समवायः। तेन सता सामान्यविशेषवद् द्रव्यमित्यादि व्यवहारदर्शनात् ।
तथा स्वसमये स्वशास्त्रे अर्थशब्देनाभिधीयन्त इति स्वसमयार्थशब्दाभिधेयानि, तेषां भाव: * स्वसमयार्थशब्दाभिधेयत्वम् * वाच्यवाचकालम्बनं ज्ञानमेव साधर्म्यम्। अर्थ- 25 संज्ञाकरणे च प्रयोजनं श्रोत्र ग्राह्योऽर्थः शब्द इति (वै. सू.२।२।२१)। तथाहि, श्रोत्रग्राह्यत्वा
For Private And Personal Use Only