________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
व्योमवती
तु पूर्वमपि बाधकमस्त्येव, केवलन्तु शौर्यख्यापनाय माणवकं सिंह इति व्यवहरन्ति । मिथ्याज्ञाने तु अतस्मिस्तदेवेदमिति मन्यन्ते । अस्ति च सामान्यादी सत्सदिति ज्ञानम्, न चास्य बाधकं कालत्रयेऽपि इत्यत्र शेषमूह्यम्।
अथास्तु सामान्यादावुपचरितं द्रव्यत्वादौ मुख्यं सत्सदिति ज्ञानम्, सत्तासम्बन्धस्तु 5 विकल्पते ! किं सत्ता सताम् अथासतामिति ? यदि सताम्, अथ सत्तासम्बन्धात्पूर्वं
सत्त्वम्, सत्तासम्बधेन विना चेति । सत्तासम्बन्धाभ्युपगमे तत्राप्ययं विकल्प इत्यनवस्था। विनेति चेत् । किं सत्तया ? अथासतां सत्तासम्बन्धात् सत्त्वमित्यपारमाथिक तहि सत्त्वम्, उपाध्यपेक्षितत्वात् । यदि चासतां सत्तासम्बन्धेन सत्त्वम्, खरविषाणा
दीनामपि सत्त्वं स्यादसत्त्वाविशेषात् । तथा सत्तायाश्चासत्त्वे तद्योगान्न द्रव्यादिषु सत्त्वं 10 स्यात् । स्वरूपेण च सत्त्वे द्रव्यादिषु तथाभावप्रसङ्गः सत्तासम्बन्धेन चानवस्थेति ।
अतोऽर्थक्रियाकारित्वेन सत्त्वमिति शाक्या मन्यन्ते । वर्तमानकालसम्बन्धित्वेनेत्यपरे ।
तत्र यत्तदवोचाम, किं सतां सत्तासम्बन्धात् सत्त्वम् ? अथ असतामिति ? तदसत् । निष्पादसम्बन्धयोरेककालत्वात् । तथाहि, पदार्थानां स्वकारणसत्तासम्बन्ध एवोत्पत्तिः । 15 न पूर्व सत्त्वम्, सत्कार्यवादप्रतिषेधात् । न चासतां स्वकारणसत्तासम्बन्धाभ्युपगमे
खरविषाणादिषु तथाभावप्रसङ्गः, तदुत्पत्तिकारणाभावस्य तदभावेनैव निश्चयात् । नित्येषु पूर्वापरभावानुपपत्तेविकल्पानुपपत्तिः ।
न च अपारमार्थिकं सत्त्वम्, सत्तासम्बन्धस्य परमार्थत्वात् । न च स्फटिकादौ चक्रादि [ ? जपादि ] रूपमिव औपाधिकं द्रव्यादिषु सत्त्वम्, सत्तायास्तत्र समवायात् । उपाधिश्चोपाधीयमानः समवेतो वा, क्वचित् समवेतरूपतिरोधायकश्च । तथाहि, स्फटिकादिरूपे रक्तादिद्रव्यसान्निध्यात् तिरोहिते रक्तः स्फटिक इति प्रत्ययस्य भावान युक्तमौपाधिकत्वम् । न चैवं सत्ता द्रव्यादिस्वरूपं तिरोधायात्मानं प्रकाशयति, द्रव्यत्वादेरपि प्रतिभासनात् । नाप्यसमवेता, तत्र समवायोपलब्धेः ।
नन्वेवं द्रव्यत्वादेर्व्यतिरेके तर्हि स्वरूपासम्भवाद् द्रव्यादेरप्यदृश्यताप्रसङ्गः । 25 तन्न द्रव्यत्वादेरेव द्रव्यादिष्वसाधारणत्वात् । तथाहि, द्रव्ये द्रव्यत्वेन द्रव्यमिति व्यपदेशो
१. निष्ठासम्बन्धयोरेककालत्वाद् इति वाक्यकृदुक्तिस्तुलनीया ।
For Private And Personal Use Only