________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पदार्थत्रयसाधर्म्यम् सिद्धो हेतुरिति । न च द्रव्यादिषु सत्सदिति ज्ञानस्यासाधारणधर्मादवोत्पत्तिरिति वाच्यम्। मुख्ये वाधकास भवात् । न च मुख्य विना क्वचिदुपचारो दृष्ट इति द्रव्यादिषु सत्तासमवायादेव सत्सदिति ज्ञानं दृष्टमिति सिद्धम् ।।
___ अन्ये तु सत्सदिति ज्ञानस्य सत्ताविशेषणजनितत्वादेकत्र समवेतत्वेन विशेषणमन्यत्र विशेषणविशेष्यभावेन इत्युभयत्रापि मुख्यतां ब्रुवते। तथाहि, न संघोग-5 समवायायत्तो विशेषणविशेष्यभावः, अभावे तदभावप्रसङ्गात् । अथ विशिष्टज्ञानप्रतिबन्धो यत्र हि विशिष्टज्ञानं तत्र विशेषणविशेष्यभावः । तत्र हि सामान्यादि वपि सत्सवितिविशिष्टज्ञानोत्पत्तेविशेषणविशेष्यभाव एव सम्बन्ध इत्युभयत्रापि मुख्यं सत्सदिति ज्ञानम् ।
एतच्चासत् । यत्र हि गुणकर्मसामान्यानां विशेषणत्वम् उभयाभिमतं तत्र तत्र 10 समवायेनेति दृष्टम् । सामान्यादिषु सत्तायाः समवायस्थ व्यापकस्य व्यावृत्तेविशेषणत्वस्य व्याप्यस्य व्यावृत्तिरिति केवलं तत्सहचरितधर्मोपलव्धेः सत्ताध्यारोप इति युक्तम् । अन्यथा हि सर्वत्र गौणप्रत्ययोच्छेदो मिथ्याज्ञानस्य चेति । तथाहि सिंहो माणवक इति माणवकेऽपि सिंहत्वं विशेषणम्, सिंह इवेति मुख्यमेव ज्ञानं स्यात् । तथा शुक्तिकायां रजतमिति ज्ञाने रजत इव रजतत्वं विशेषणमिति मिथ्यात्वं न स्यात् । अस्ति च । मिथ्याज्ञानमिति प्रवक्ष्यामस्तदविकारे ।
अथ सिंहत्वायोगिनि माणवके तत्सहचरितवर्मोपलम्भात् सिंहत्वाध्यारोपेणोत्पादाद् गौणत्वम्। तथा शुक्तिकायां रजतसाधम्र्ये उपलब्धे रजतत्वाध्यारोपेणोत्पादान्मिथ्यात्वमिति चेन्, कथमेतत् ? माणवके सिंहत्वस्य समवायेनानुभवाभावात् । तथा शुक्तिकायां रजतत्वस्य समवायेनानुभवाभावात् । अतः स्मर्यमाणस्याध्यारोपेण 20 सिंहत्वस्य माणवके व्यापारस्तथा रजतत्वस्य शुक्तिकायामिति प्रयुक्तं गौणत्वं मिथ्यात्वञ्चेति । तहि सामान्यादिषु सत्ताध्यारोपेण सत्सदिति ज्ञानं न्याय्यं सत्तासमवाये बाधकोपपत्तेरिति । नन्विवार्थस्य सामान्यादौ सत्सदिति ज्ञानेऽप्रतिभासनादुपचारः कथम् ? यत्र हि इवार्थः प्रथते तदुपचरितं ज्ञानम्, अन्यथा हि अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेष एव स्यात् । नैतदेवम् । सिंहत्वायोगिनं पुरुषं प्रतिपद्यमानोऽपि सिंहोऽयमिति प्रतिपद्यते । न चैवं रजतत्वायोगिनी शक्तिकां प्रतिपद्यमानो रजतमिति प्रत्येति । तथा च मिथ्याज्ञाने पश्चाद् बाधकं वेद्यमिति । गौणज्ञाने
For Private And Personal Use Only