________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
व्योमवती
प्रत्यय एव। तथाहि, सरितिज्ञानं विशिष्टज्ञानत्वान्नर्ते विशेषणाद् भवतीति सत्तासद्भावः ।
नन्वेवं तहि त्रयाणामित्य युक्तं सामान्यादिष्वपि सत्सदिति ज्ञानोत्पत्तेः। तथाहि, सत् सामान्यम्, सन्तो विशेषाः, सन् समवाय इत्यपि विशिष्टज्ञानदर्शनाइ वाच्यः सत्तासम्बन्ध इति ।
अथ स्वात्मसत्त्वात् सामान्यादिषु सत्सदिति ज्ञानमिति चेत्, एवं तर्हि द्रव्यादिष्वपि तदेवास्तु किं सत्तया ? न च सत्सदिति ज्ञानस्य बैलक्षण्यं विना निमित्तद्वयसन्निकर्षोभावने प्रमाणमस्तीति सत्ता स्वरूपसत्त्वं वा सर्वत्राभ्युपेयम् ।
तथाहि, द्रव्यादिषु, सत्सदिति ज्ञानं स्वात्मसत्त्वाद् भवति, सत्सदिति ज्ञानत्वात्, 10 सामान्यादिषु सत्सदिति ज्ञानवत् ।
यद् वा सामान्यादिषु सत्सदिति ज्ञानम्, सत्ताकार्यम्, सत्सदिति ज्ञानत्वात्, द्रव्यादिषु सत्सदिति ज्ञानवद् इत्येतदसत्, सामान्या दिनु सत्तासम्बन्धे वाधकोपपत्तेः । तथाहि, सामान्ये सत्तासम्बन्धकल्पनायां सत्तायामपि सत्सदितिज्ञानदर्शनाद् अन्यः सत्तासम्बन्धस्तत्रापि इत्यनवस्था।
विशेषेषु च सत्तासन्बन्धित्वात् संशयोपपत्तौ निर्णयार्थमन्यो विशेषस्तत्रापि अन्यः सत्तासम्बन्ध इति संशयविषयत्वान्निर्णयार्थमन्यो विशेष इति संशयनिर्णयविशेषानवस्था अत्र प्रसज्येत।
समवाये च सत्ताया वृत्त्यभाव इति बाधकोपपत्तेर्न सामान्यादिषु सत्तासम्बन्ध इति।
15
20
ननु स्वरूपसत्त्वेऽपि समानमेतत् । तथाहि, यद्येक स्वरूपसत्त्वं सामान्यादिषु तत्रापि सत्तावदनवस्थानादिदोषः । अथ प्रतिपदार्थनियतम्, तस्य व्यावृत्तरूपतायां सत्सदिति ज्ञानजनकत्वं न स्यात्, अस्य हि अनुगतत्वात् । न। अन्यथा तदुपपत्तेः । तथाहि, सामान्यादिषु सत्तासमवाये बाधकोपपत्तेः सत्सदिति ज्ञानमुपचरितम् । उपचारश्च प्रवर्त्तमानो निमित्तमपेक्षते इति स्वात्मना साधारणधर्मेणोपचारनिमित्तेन सत्तावत्त्वं सत्सदिति प्रत्ययजनकत्वम्, यत्र हि सत्ता साधारणधर्मो दृष्ट इति तदुपलम्भात् सत्ताध्यारोपः प्रवर्तत एवेति । सामान्यादिषु सत्सदिति ज्ञानस्यान्यथापि भावादन्यथा.
25
For Private And Personal Use Only